SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ हास्यस्थानत्वेन श्रीनेमिकुमार उक्तः- भो नेमिकुमार ! पाणिग्रहणं कुरु । त्वद्धाता द्वात्रिंशत्सहस्रं कन्याः अङ्गी| चकार । त्वमेकाऽपि परिणेतुं न शक्तः । पूर्वं सर्वे तीर्थङ्करा अपि परिणीताः । आत्मीये वंशे मुनिसुव्रतो जिनोऽपि पाणिग्रहणं चकार । इत्यादियुक्त्या ताभिर्नेमिकुमारः पाणिग्रहणं कर्तुमङ्गीकारितः । ततः कृष्णेन समुद्रविजयभूप| शिवादेव्योर उक्तम्- नेमिकुमारः पाणिग्रहणविषयेऽङ्गीकारितोऽस्ति । शिवया देव्योक्तम् - कन्या वर्या विलो - क्यताम् । ततः सत्यभामयोक्तम् - उग्रसेनस्य भूपस्य राजीमती पुत्री सर्वोत्कृष्टगुणा निजरूपश्रीपराभूतसुराङ्गना विद्यते । सा तु मज्जामिर्विद्यते । तस्या रूपमेवंविधं विद्यते । तथाहि यस्य रूपस्य पुरतः सर्वासामप्सरसां रूपाणि अङ्गारतुलामपि न दधते । इत्यादि तस्या राजीमत्या रूपवर्णनमाकर्ण्य ततः कृष्णः स्वयमुग्रसेनभूपस्य गृहे गत्वा राजीमतीं श्रीनेमिकुमारपाणिग्रहणार्थं याचते स्म । समुद्रविजयभूपोऽवग् - यदि श्रीनेमिकुमाराय राजीमती दीयते तदा किं न लब्धं ? । यद्भवतां रोचते तत् क्रियताम् । ततः श्रीकृष्णसमुद्र विजयराजादयस्तत्राभ्येत्य |गणकानाकार्य प्रोचुः - शुभलग्नं गृह्यताम् । ततः क्रोष्टिको विलोक्य शास्त्रं प्राह - श्रावणसितषष्ठीदिने उभयोर्वरकन्ययोर्विवाहयोग्यं लग्नमस्ति । ततो विवाहलग्नं लात्वा विवाहसामग्री द्वयोरभूत् । उक्तं च- कण्हेण Jain Educationational For Private & Personal Use Only Jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy