________________
॥ श्रीभरते- श्वरवृत्ती २ विभागे
॥२९६॥
तदा कृष्णः खशङ्ख प्रपूर्यमाणं ज्ञात्वा रोषाक्रान्तः सभायां प्राह-अथ यो मम शङ्ख पूरयामास स मरिष्यत्येव । राजीमतिअथ यावत् कृष्णः संनह्य खं सकलं बलं युद्धायोद्यतोऽभूत् तावत्केनचिन्नरेणोक्तम्-नेमिकुमारेणैतत् सर्वचरित्रम्। कृतम् । ततः कृष्णो दध्यौ-असौ विष्णुर्भावी । नाहम् । इत्यादि ध्यायति कृष्णे नेमिकुमारस्तत्रागतः । ततो बलपरीक्षार्थं कृष्णेन प्रोक्तम्-भो नेमिकुमार ! तव बलं विलोक्यते । प्रथमं त्वं मम मुजालतामूवींकृतां वालय । ततो नेमिकुमारेण कमलनालवन्नामिता कृष्णभुजा । ततो नेमिकुमारभुजलतामूवींकृतां वालयन् | सर्वबलेन कृष्णः कपीशवत् आन्दोलयामास । तथापि प्रभोर्भुजा न नामिता मनागपि । ततः कृष्णः कालमु-II खोऽभूत् । ध्यातं कृष्णेन-मदीयं राज्यं गतमेव । ततो बलभद्रेणोक्तम्-एष नेमिकुमारो न राज्यार्थी । ततोऽकस्मात् कोऽपि देवोऽवग् व्योम्नि-एष नेमिकुमारो न राज्यार्थी। त्वयाऽस्माद्भयं नानेयम् । ततः कृष्णः स्वस्थोऽभूत्।। उक्तं कृष्णेन-व०॥१॥ततः कृष्णो हृष्टः श्रीनेमिकुमारे प्रीतिं करोति स्म । एकदा शिवया राज्ञे उक्तम् । नेमिकुमारः ॥२९॥ पाणिग्रहणविषये न मन्यते स्म ।त्वं तथा कुरु स यथा पाणिग्रहणं कन्यायाः करोति स्म । अथ कदाचिद्भीमग्रीमागमे श्रीकृष्णनरेन्द्रो जलक्रीडां कर्तुं गतः। तत्र जलक्रीडां कुर्वतीभिर्जाम्बूवत्यादिभिः कृष्णप्रियाभिर्देवरत्वेन
in Educat
For Private Personel Use Only
jainelibrary.org