________________
देवो धारिण्या देव्याः कुक्षाववतीर्णः स्त्रीत्वेन । सुदिवसे धारिणी सूतामसूत। तस्या जन्मोत्सवं कृत्वा राजीमतीति । नाम मातापितृभ्यां दत्तम् । क्रमात् यादवसार्थे मथुराया उग्रसेनराजा द्वारकायां समागात् । वर्द्धमाना सुता क्रमादूपस्विनी (द् अतीव रूपवती) जाता राजीमती। कन्यारत्नमिदं चारु, प्रकृत्या संस्कृतं पुनः।तारुण्यमणि कारेणानय | त्रिभुवनेऽप्यभूत् ॥१॥ निःसीमरूपकारं यद्यौवनं तत्र सूत्रभृत् । ब्रह्मा कृप्तात्मरूपाणि(पः सन्) विशेषज्ञो यथाऽकरोत् ॥ २ ॥ इतः शिवा राज्ञी पुत्रं प्रति प्राह-पुत्र ! विवाहं कुरु । ततः प्रभुः प्राह-यदाऽहं योग्यां कन्या वीक्ष्ये तदा परिणेष्ये ताम् । वत्स! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यथा(दा), प्रोक्तः श्रीशिवयाऽम्बया जिन! । ततोऽवादीत्त्वमेवं तदा । योग्यामम्ब! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्त्वाऽमोदयदम्बिका गुरुतरं
तत्ते गुरुत्वं गुरोः॥१॥ अन्यदा द्वारिकायां श्रीनेमिकुमारः सवयोभिः सह क्रीडां कुर्वाणः कृष्णस्यायुधशालायां गतः। तत्रायुधशालापालकेन निवार्यमाणो नेमिकुमारश्च हस्ते चक्रं गृहीत्वा कुलालचक्रमिव भ्रमयामास । ततः । || शार्ङ्गधनुर्मणालनालमिव नामयामास प्रभुः । ततः कौमोदकी गदां भुजशाखायां प्रापयामास । ततः पाचजन्य शङ्खमापूरयामास प्रभुः। तदा जगद् व्याकुलमभूत् । उक्तं च-चक्र० ॥१॥ विष्णो । शंख०२। संचेलुः३।
Jain Education
For Private & Personel Use Only
rawbenelibrary.org