________________
॥ श्रीभरते. २विभागे ...
सुभद्रा-': चरित्रम्।
श्वरवृत्ती
॥२९५॥
तत् प्रमाणं । प्रत्युत्तरश्चेदीयते तदा मम का शोभा भवति ? । यद्यादेशो दीयते तदाऽहं कपाटानि उद्घाटयामि। तयोक्तम्-उद्घाटय । ततः सुभद्रया पटहः स्पृष्टः। मनुष्येषु लक्षसंख्येषु मिलितेषु पश्यत्सु स्त्रीषु बह्वीषु पश्यन्तीषु सुभद्रा शासनदेव्याः सान्निध्याच्छीलप्रभावाच्चालिन्या कृपाजलं बहिः कृत्वा तेन जलेन प्रतोलीत्रयं । छंटितम् । तत्कालं प्रतोलीत्रयमुद्घटितम्। इतः शासनदेव्योक्तं-या काचिदेवंविधा सती भवति सा चतुष्टयीं(थी)प्रतोलीमुद्घाटयतु । ततः कयाऽपि नोद्घाटिता। तथैव स्थिता सा। देव्योक्तम्-अस्यां सत्यां यो विरुद्धं चिन्तयिष्यति तस्य शिक्षा दास्यते । ततः सर्वोऽवनीपप्रमुखो जनश्चमत्कृतो धर्म जग्राह । श्वश्रूरप्युत्थाय वधूं क्षमयामास । सा वधूरपि श्वश्रू क्षमयामास। ततस्तत् कुटुम्बं सर्व जैनधर्मपरायणमभूत् । ततः क्रमात्सुभद्राऽपि श्रीगुरुपार्श्वे दीक्षां लात्वा सर्वक्षीणकर्मा मुक्तिपुरीं ययौ । इति सुभद्राचरित्रं समाप्तम् ॥ १० ॥ | रौइमई रिसिदत्ता, पउमौवई अंजो सिरीदेवी। जिट्ट सुजि, मिगावई, पभोवई चिल्लणादेवी ॥२॥] IN
कुमार्गे निपतञ् जीवो, रक्षणीयः प्रयत्नतः । राजीमत्येव सद्वाचा, रथनेमिरिव व्रती ॥१॥ तथाहि-मथुरायां पुर्या उग्रसेनो राजा राज्यं करोति स्म । तस्य धारिणी प्रियाऽभूत् । अपराजितविमानाच्युतो
॥२९५॥
Jain Education
Area
For Private Personel Use Only
Plainelibrary.org
al