________________
| त्सों न मोक्तव्यः । ततस्तस्याः सत्त्वसाहसेन शासनदेवी प्रकटीभूय प्राह-वत्से ! कायोत्सर्ग पारय । ततः
सुभद्रा कायोत्सर्ग पारयित्वा प्राह-भो शासनदेवि ! मदीयं कलङ्कं स्फेटय । शासनदेवी जगौ-वत्से ! खेद मा कुरु, प्रातस्ते कलङ्क उत्तरिष्यति यथा तथाऽहं करिष्यामि । यथा व्योम्नि स्थिता जल्पिष्यामि तथा त्वया ||
कर्तव्यम् । ततो हृष्टा सुभद्रा । शासनदेवी तिरोदधे । प्रातरुत्थाय यावत् प्रतोलीपालकाः प्रतोलीमुद्घाटयन्ति । N| तावन्मनागपि चतसृषु प्रतोलीषु कपाटानि नोद्घटन्ति । ततो राजा तत्रागतो। द्वारमुद्घाटयति । एकमपि all नोद्घटति । ततो लोकाः सर्वे व्याकुला बभूवुः । शान्तिकर्माणि कारितानि । ततो राजा विलक्षोऽभूत् । इतः | शासनदेव्योक्तं व्योम्नि-या स्त्री सती विद्यते सा चेत् कूपमध्याच्चालिन्या जलमाकृष्य कपाटानि छंटयिष्यति NI तदा प्रतोल्य उद्घटिष्यन्ति । ततो राज्ञा पटहो वादितः । या स्त्री कपाटानि उद्घाटयति तस्याः सन्मानो दास्यते । ततोऽनेकाः स्त्रियश्चालिन्या जलं यावत् कृषन्ति तावद्गलित्वा तद्याति । एवं बळ्यः स्त्रियो विलक्षा की बभूवुः। राजा सचिन्तोऽभूत् । इतः सुभद्राऽवग् श्वश्रू यदि वो रोचते तदाऽहं कपाटानि उद्घाटयामि । श्वश्रूर्जगौअग्रे त्वया कुले कलङ्क आनीतोऽस्ति । अथ किं करिष्यसि ?। वधूः सविनयं प्राह-मातर्यत्त्वया पूज्यया जल्प्यते |
भरते. ५०
Jain Education
en anal
For Private & Personal Use Only
VI
.jainelibrary.org