________________
॥२९४॥
श्रीभरते- स्वहितमाचरणीयं, किं करिष्यति जनो बहुजल्पः । विद्यते स नहि कश्चिदुपायः, सर्वलोकपरितोषकरो यः॥१॥ सुभद्राश्वरवृत्ती
चरित्रम् । २विभागे
तथापि सुभद्रां देवगृहेषु गच्छन्तीं वीक्ष्य श्वश्रूरीjया यथा तथा वक्ति । ततः सुभद्रा पृथग्गृहे स्थापिता सती । तथापि सुभद्रा यह छ जिनेन्द्रं पूजयन्ती साधून् प्रतिलाभयन्ती क्षणमपि धर्म न मुञ्चति । यतः-राज्यं यातु श्रियो यान्तु० ॥१॥ इतोऽन्यदा सुभद्रागृहे साधुरेको मासक्षपणपारणे विहर्तुं समागात् । तस्य चक्षुषि तृणं पतितं वीक्ष्य प्रतिलाभयन्ती दध्यौ-यद्यस्य तृणं चक्षुषि स्थास्यति चिरं तदा चक्षुर्गमिष्यति च । एवं विमृश्य तन्व्या जिह्वया तृणं * मुनेनॆत्रात् तया कर्षितम् । तदा स्नुषाभालस्थमाईकुङ्कुमतिलकं यतिललाटे लग्नं दृष्ट्वा श्वश्रूर्जगौ-भो बुद्धदास !
त्वत्पत्नीचरितं विलोकय । इयं वधूरीदृशी विद्यते । अस्मिन् साधौ लुब्धाऽस्ति । अन्यथैवं न करोति । ततो मिलितं सर्व कुटुम्ब, दृष्टं वधूचेष्टितम् । सर्व कुटुम्बं प्राह-इयमात्मच्छंदचारिणी कुशीला विद्यते । एषा अयोग्याऽस्ति। आत्मनः कुलं कलङ्कयिष्यति । ततो बुद्धदासस्तस्यां निःस्नेहोऽभूत् । ततः सुभद्रया ध्यातं । मया वयं l कृतं। एवं यदि कुटुम्बं जल्पति तदा किं क्रियते ? । ततः सर्व कुटुम्बं जल्पति-इयं कुशीलाऽस्ति । ततः स्वकलकापनयनाय कायोत्सर्गे स्थिता सुभद्रा। दध्यौ च-यावच्छासनदेवी मम कलङ्क नोत्तारयिष्यति तावन्मया कायो
Imasta
॥२९४
Jain Educatio
n
al
For Private & Personel Use Only
Nilmjainelibrary.org