________________
Jain Education In
सम्बन्धिनी द्वितीया पक्वान्नसम्बन्धिनी बभूव । तेन दध्यादि न ग्रहीतव्यं । तेन, भाजनं प्रक्षाल्य तक्रं गृहीतं तेन इत्यादि । इतो भव्यं जिनधर्मकुशलं तं वीक्ष्य श्रेष्ठी दध्यौ - यद्ययं मम पुत्र्या वरो भवति तदा बरं धर्म्मवान् । यतः - जिनेन्द्रधर्मवेत्तारं दातारं विनयान्वितम् । कर्तारं यतनां सर्वजीवेषु करुणान्वितम् ॥ १ ॥ | सरलं खवपूरूपलक्ष्मीनिर्जितमन्मथम् । पुत्र्यर्थं विरला एव, लभन्ते वरमङ्गिनम् ॥ २ ॥ युग्मम् । जिनदासो | विमृश्येति भोजनानन्तरं प्राह - इयं मे कन्या समस्ति, त्वं गुणज्ञोऽसि, यदि त्वमेनामङ्गीकुरु तदा लक्ष्मीकृष्णयोरिव शशिरोहिण्योरिव युवयोः शोभा भवति । तेन बुद्धदासेन तन्मानितम् । ततो महोत्सवपुरस्सरं बुद्धदासाय जिनदासः खां पुत्रीं ददौ । सुभद्रां परिणीय बुद्धदासः श्वशुरादिवर्गं सर्वं मुत्कलाप्य बहूपार्जितधनः खपुरे | समेत्य मातापित्रोर्मिलितः । मातापितृभ्यां महामहः कृतः । सुभद्रा श्वशुरश्वश्वोर्विनयं करोति स्म । प्रातरुत्थाय जिनेन्द्रगृहे गत्वा जिनेन्द्रं प्रणम्य जिनमुनीन् प्रणम्य गृहे समागता । तदा श्वश्रूर्जगौ-वत्से ! अस्माकं गृहे बुद्ध एव देव आराधनीयो विद्यते । अतस्त्वयाऽन्यत्र कुत्र न गन्तव्यम् । सुभद्रा दध्यौ - अहो कपटं मण्डयित्वाऽहमनेन भर्त्रा परिणीता । एते तु बौद्धाः । अतः किं कुर्वे ? । यद्भावि तद्भवतु । मया स्वहितमाचरणीयम् । यतः - सर्वथा
For Private & Personal Use Only
anelibrary.org