________________
॥२९॥
॥ श्रीभरते-टासमक्षं जगतो मम॥१॥इत्थं कुलोचितं किन्ते ?, निघृणेभ्योऽपि निघृण ! । एकाकिनी वनेऽत्याक्षीर्यदाधानवतीं।
सीताविभाग। प्रियाम् ॥२॥ तवाहं न भविष्यामि, पते ! विघ्नकरी मनाक् । चिरं जयतु किन्तु श्रीराघवो लक्ष्मणान्वितः॥३॥ चरित्रम् ।
। एतद् श्लोकत्रयं त्वया श्रीरामायार्पणीयमित्युक्त्वा सीतया विसर्जितः सेनानीः। क्षरदश्रुप्लुताक्षः सीतां मुक्त्वा |
पश्चाद्ववले।जानकी स्वकर्म कृतं निन्दन्ती वने बभ्राम । इतस्तत्रागतेन भूभुजा श्रीवज्रसंघेन त्वं मम भगिनीत्युक्त्वा al पुण्डरीकपुरे सीता नीता। इतः सेनान्यानीतं सीतावितीर्ण श्लोकत्रयं वाचयित्वा रामो दीनाशयः सीतावियोग
मसहमानस्तां प्रियां पश्चादानेतुं तेन सेनान्या सह वने तत्र गतः । विलोकिताऽपि जानकी न लब्धा रामेण ।। सीता भक्षिता श्वापदेनेतिकृत्वा श्रीरामेण पश्चाद् खगृहे समेत्य तस्याः प्रेतकार्य कृतम् । ततो ध्यायन् सीते सीते | इति कालं रामोऽत्यवाहयत् । इतः सीता पुत्रद्वयं प्रासूत । तयोर्जन्मोत्सवं कृत्वा वज्रजंघः कुशलवेत्यभिघां
ददौ । सत्कलाकलापसंपूर्णी महाभुजौ जातौ कुशलवौ । शशिकलां निजां पुत्री परा द्वात्रिंशतं कन्या वज्रजंघो । IN लवाख्यमुदवायत् । कुशाय पृथुपृथ्वीपतेः सुतां वज्रजंघो ययाचे । अज्ञातवंशत्वात्तस्मै स्वपुत्रीं न दत्ते स्म ।।
ततो वज्रजंघस्तत्र गत्वा कुशलवान्वितो रणे पृथुसैन्यं बभंज । हताहतं चकार तथा यथा दिशोदिशं गतम् ।
JainEducation
For Private sPersonal use Only