________________
Jain Educat
प्राह - इयत्कालं त्वं क्वासीः ? । साप्यूचे -वर्य ! पुमन् ! किं श्रीरामादप्यधिकोऽसि । श्रीरामो रावणगृहादानीतां सीतां शुद्धामेव मेने । त्वं तु एकं क्षणमपि मामन्यत्र स्थितां न सहसे तत् किम् ? । सोऽप्यूचे - स्त्रीजितः सोऽस्ति । नाहं तादृक् । कथं सहे ? । श्रुत्वेति दध्यौ रामो - धिङ् मां स्त्रीवशगम् । ध्यात्वेति रामः सौमित्रिणा समं रहो मन्त्रयामास । लोकाः सीतामसतीं जल्पन्ति । सौमित्रिः प्राह - लोकोक्त्या सीतां महासतीं मा त्यज । लोकाः पर| दोषोक्तौ रसिका भवन्ति । यतः - रसिकः परदोषोक्तौ, स्वभावादेव यज्जनः । शिक्षणीयः स भूपालैर्योपेक्ष्यो महात्मभिः ॥ १ ॥ रामोऽप्याह - इदं सत्यं । तथापि लोकविरुद्धं त्याज्यम् । ततो रामो निषिध्य सौमित्रिं सेनान्यं I प्रति प्राह-सीतां त्यज वने । किञ्च - अस्याः संमेततीर्थे यातुं दोहद उत्पन्नोऽस्ति । तेन गङ्गायाः परकूले त्यक्त्वा अत्र | समागच्छ । तथेत्युक्त्वा सीतापार्श्वेऽभ्येत्याह-स्वामिनि ! श्रीरामादेशात्संमेततीर्थे त्वां नेष्यामि । रथमारोह । ततः | सेनानीः सीतां रथे समारोप्य स्वाम्यादेशात् भीषणे काननेऽमुञ्चत् । सेनानीः प्राह तां च प्रति-त्वत्पत्या त्वं | त्याजिताऽसि मत्पार्श्वात् । अतोऽहं किं करोमि ? | खाम्यादेशो दुष्करः । श्रुत्वेति मूच्छिता सीता पतिता रथाद् । विल|लाप । क्षणेन स्वस्थीभूय रामं प्रति प्राह सीता - यद्यजायत ते लोकापवादभयभीरुता । दिव्यं किमिति तन्नादाः,
national
For Private & Personal Use Only
ininelibrary.org