SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीमरतेभारवृत्ती २ विभागे ॥ २८९ ॥ Jain Educat स्वराज्ये संस्थाप्य श्रीसत्यभूतिमुनिपार्श्वे दीक्षां ललौ । श्रीरामं च दशरथो वनवासायादिष्टवान् । ततः श्रीरामो लक्ष्मणयुतो वने ययौ । क्रमाद्दण्डकारण्ये गतः श्रीरामः । सीतापहरणपश्चाद्वालनदशकन्धरहननखराज्यप्राप्तिं यावत् विस्तरतः स्वयं ज्ञेयं, प्रसिद्धत्वान्नोक्तमत्र । श्रीरामः स्वराज्ये उपविश्य भ्रातॄणां देशान् विभज्य ददौ । अथ गर्भं बभार सीता । वर्या दोहदा जाताः । अत्रान्तरे सीताया दक्षिणं चक्षुः स्फुरितम् । चक्षुःस्फुरणं रामाग्रे प्रोक्तं सीतया । रामोऽवग् - दुर्निमित्तमिदम् । यतः - साहेइ विप्फुरंतं, इडं पुरिसस्स दाहिणं नयणं । वामं कहइ अणिडं, इय भणियं पुबसूरीहिं ॥ १ ॥ तेन भद्रे ! जिनालये त्वं दीपान् कुरु । दानं देहि दीनस्य । पत्युक्तं सीता सर्वमकरोत् । इतो रामं जना अभ्यधुः - देव ! लोका वदन्ति - स्त्रीलोलुपेन रावणेन सीता षण्मासान् गृहे स्थापिता । तस्याः कथं सतीत्वमुच्यते ? । यतः - युक्तियुक्तः प्रवादोऽयं, तैलबिन्दुरिवाम्भसि । सर्वत्र प्रसृतो लोके, तन्मा मृष रघूद्वह ! ॥ १ ॥ तेनायं जनप्रवादो न वर इत्यादिजनमुखाद्रामो निशम्य तूष्णीभाग् बभूव । क्षणात् स जगौ - साधु व्यज्ञपि युष्माभिर्न स्त्रीमात्रकृतेऽप्यहम् । सहिष्ये दुर्नयं तानित्युदित्वा विससर्ज सः ॥ १ ॥ बंभ्रमन्नथ काकुत्स्थो निशीथे चर्म्मकृन्मन्दिरासन्नं गत्वा स्थितः । तदा चर्मक्रुच्चिरप्राप्तां स्वभार्यां हत्वा अंघ्रिणा dehational For Private & Personal Use Only सीता चरित्रम् । ॥ २८९ ॥ jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy