SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रेष्य जनकं सीतां स्वपुत्राय याचते स्म । प्रीत्या जनकोऽवग्-मया पुत्री पूर्वं दशरथपुत्राय दातुं वाञ्छिताऽस्ति । तथापि यो वज्रावोर्णावर्तधनुषी उत्पाट्य गुणेऽधिरोपयिष्यति स सीतां परिणेष्यति । उक्त्वेति जनकस्ते धनुषी स्वयंवरमण्डपे मुक्त्वा भूपाननेकश आकारयामास । ततश्चपलगतिना सीतासम्बन्धे प्रोक्ते चन्द्रगतिः । खपुत्रयुतस्तत्रागात् । दशरथोऽपि राजा रामादिपुत्रयुतस्तत्रागात् । अनेके भूपाः खगास्तत्रेयुः । सीता सुवेषा तत्रागात् । अङ्गवङ्गादिदेशोत्पन्नैर्भूपपुत्रैरुत्पाटिते धनुषी यदा न स्थानाच्चेलतुः तदा लीलया श्रीरामो लामञ्चादुत्थाय धनुरेकमधिज्यं चक्रे । ततो जानकी श्रीरामस्य कण्ठे वरमालां चिक्षेप । द्वितीयं धनुरधिज्यं लक्ष्मणो व्यधात् । ततः खगा अष्टादश कन्यास्तस्मै ददुः । ततो भरतो भद्राह्वां कनकभूपपुत्रीमुपयेमे । ततो दशरथः स्वान् पुत्रान् परिणाय्य स्वपुरमगात् । भामण्डलस्त्वप्राप्तमनोरथः पितृयुतो यदा दुःखं दधौ तदा जाव्योम्नि वाग् जाता-मा विषादं कुरु, सीता तवेयं भगिनी, जनकस्ते पिता, त्वं देवापहृतश्चन्द्रगतिहस्ते चटितः। ततो भामण्डलः सीतां खां जामि ज्ञात्वा जनकं तातं मत्वा हृष्टो, मिलितश्च। सीतां क्षमयामास । ततो जनकं | या पृष्ट्वा चन्द्रगतियुतः स्वपुरमगात् । रामः सीतया सह वर्यभोगान् भुक्ते स्म । क्रमाद्दशरथः पूर्ववितीर्णवरात् भरतं भरते.४९ Jain Educational For Private Personal Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy