SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। ॥२८८॥ ॥ श्रीभरते- तं बालं लात्वा खपत्न्याः ददौ खगः। अथ गूढगर्भया पत्न्या तनयोऽजनि इति घोषायितं राज्ञा । जन्मोत्सवं सीतानवा तस्य सूनोः कृत्वा भामण्डलचिह्नदर्शनाद्भामण्डलकुमार इति पिता नाम ददौ । लाल्यमानो भृशं चंद्रगतिना की तत्र सोऽर्भकः प्राप यौवनम् । इतः खजनकः पुत्रमपश्यन् सर्वतो दुःखितो भूत्वा क्रमाद्विशोकीभूय सीतेति नाम पुत्र्या ददौ राजा । क्रमाद्यौवनं प्राप्तां ज्ञातसर्वस्त्रीकलां वीक्ष्य राजा वरविलोकनचिन्तासिन्धौ पपात । यतःजम्मंतीए सोगो, वर्द्धतीए य बड्डए चिन्ता। परिणीआए दंडो, जुवइपिया दुक्खिओ निच्च॥१॥इतो म्लेच्छा दैत्या इव जनकं हन्तुमीयुः । तं वृत्तान्तं जनको दशरथाय ज्ञापितवान् सौहृदात् । तदा युयुत्सुं पितरं निषिध्य स्वयं रामस्तत्र गत्वा तं म्लेच्छकटकं युद्धकरणाज्जिगाय । ततो जनको हृष्टस्तं रामं स्वपुरमध्ये समानयत् । गौरवपूर्व सीतां दातुकामोऽभूत् श्रीरामाय । इतस्तत्रागतं पिङ्गकेशं छत्रिकाधरं भीषणरूपं प्रेक्ष्य सीता भीताऽनेशत् । ॥ ततो दासीं तुमुलं कुर्वाणां श्रुत्वा कोपाविष्टा राजपुरुषास्तत्रैत्य तं कण्ठे धृत्वा गृहान्निरवासयन् । नारदस्तु ततः ॥ २८ ॥ कुपितः सीतारूपं चित्रपट लिखित्वा चंद्रगतिसुताय भामण्डलायादर्शयत् । सोऽपि खसारं सीतामजानन् । कामविह्वलमनाः स्तोकजले मीन इवाजनि । अथ चन्द्रगतिः सुतोद्वेगकारणं ज्ञात्वा स्वसेवकं चपलगति Jain Educaton Internationa For Private Personel Use Only H jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy