________________
दृष्ट्वा यतिनी प्राह - साऽहमेव तव प्रिया । इति श्रुत्वा महेश्वरदत्तः पश्चात्तापपरः स्वं निनिन्द - धिङ् मामीदृशं पापिनं, यतो मयैकाकिनी त्वं मुधा वने मुक्ता । मत्तोऽपि नापरः कोऽपि पापी । नर्मदाऽवम् - खेदं मा कुरु । सर्वोऽपि जीवः स्वकर्मणा सुखदुःखे अनुभवति । यतः - सर्वोऽपि चेष्टते प्राणी, प्रेरितः पूर्वकर्मभिः । न कापि कस्यचिदोषो, येन नानेन निर्मितः ॥ १ ॥ सोऽपि महेश्वरदत्तस्तां क्षमयित्वा तेषां गुरूणां पार्श्वे व्रतं जग्राह । ऋषिताऽपि चारित्रं प्राप । महेश्वरदत्तऋषिदत्ता कर्मक्षयं कृत्वा मुक्तिं ययतुः नर्मदातटे । ततो लोके नर्मदातीर्थ जातं देवैर्महोत्सवकरणात् । इति नर्मदासुन्दरी ऋषिदत्ताकथा समाप्ता ॥ ६ ॥
सदा ये मनुजा नार्यः, सुशीलं पालयन्ति हि । सीतेव श्लाघ्यतां यान्ति, ते जना भुवनत्रये ॥ १ ॥
तथाहि - मिथिलायां पुरि हरिवंशे वासुके राज्ञो विपुलाहा राज्ञी बभूव । तस्य जनको नन्दनो राज्यं करोति | स्म । तत्र जनकप्रिया विदेहा नाम्नाऽभूत् । तयाऽन्यदा पुत्रपुत्रीरूपं युगलं प्रासावि । तदा सौधर्मतः पिङ्गलनामा सुरः प्राग्भववैरात्तत्रैत्य तयोर्मध्यात् पुत्रमपहत्य निस्ससार । मार्गे जातकरुणो देवो भूषणैः कुण्डलादिभिर्भूषयित्वा वैताढ्यवने मुक्त्वा तं बालं निजं स्थानं ययौ । वैताढ्यपर्वतोपरिस्थरथनूपुरखामी चण्डगतिः खगस्तत्रागात् ।
1
Jain Education national
For Private & Personal Use Only
www.jainelibrary.org