SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Jain Education प्रोचुः खामिन्! सा स्त्री ग्रथिला बभूव । व्यन्तरीव दृश्यते सा । ततो राज्ञा प्रहिता मात्रिकास्तां ताडयामासुः। अन्यदा ग्रथिलीभूय गायति जिनरासकान् । सा जिनदासेन ददृशे । सोऽपि तस्याः पुरोभूय करुणार्द्राऽभ्यधात् - का त्वमसि ?, व्यन्तराधीशः, जिनभक्तोऽसि ?, सा प्राह-यदि त्वं जैनोऽसि तदा रहोभूय मया सह वक्तव्यं, त्वया वै रहस्यं मा | कृथाः । तस्याः पृष्ठे जिनदासोऽपि गतः । योजिताञ्जलिः प्राह - का त्वं धर्मैकमानसा ? । साऽपि तं सुश्रावकं मत्वा सर्वं खोदन्तमाह । तच्छ्रुत्वा स जिनदासोऽप्याह - साधु साधु मयेक्षितासि । यतस्त्वदर्थमेवात्राहमागमम् । वत्से ! प्रेषितोऽहं वीरदासेन सुहृदा भृगुकच्छात् । तस्मात्त्वं मा खिद्येथाः । सर्वं साधु संघटयिष्यते । समये सुप्रयुक्ताया | मायायाः किमसाध्यम् ? । अतः परं त्वया घटपटादि भञ्जनीयम् । यथा राजा त्वां पुराद्वहिर्निष्काशयति । ततः सा नर्मदासुन्दरी भूताविष्टीभूय तथैव चकार यथा राज्ञ आदेशादमात्या बहिर्निष्काशयामासुः । ततो जिन| दासस्तां नर्मदासुन्दरीं लात्वा पश्चाच्चचाल । मार्गे स्त्रपयित्वा दुकूलं पर्यधापयज्जिनदासः । प्राप्याब्धितटं | यानारूढो जिनदासो नर्मदां नर्मदापुरमानिनाय । तामायान्तीं ज्ञात्वा जनकादयः सर्वे खजना मिलिताः । | हृष्टाश्वातीव ऋषभसेनाद्याः । जीवन्तीं तां तदा प्राप्य तस्या जन्मोत्सवमिव महोत्सवं व्यधुः । तथा जैनविहारेषु, For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy