________________
कारय । चेटी कूटपटुर्गत्वा तां नर्मदामब्रवीत् । गृहेऽस्माकं श्रेष्ठयुपविष्टोऽस्ति । स त्वामाह्वयति । शोभने ! मुद्रिकेयं प्रेषिताऽस्ति अभिज्ञानार्थम् । नामाङ्कितां मुद्रिकां वीरदासस्यालोक्य नर्मदा तया सार्द्ध निश्छद्मा गणिकागृहेऽगमत् । तां प्रवेश्य गृहमध्ये भूमिगृहेऽक्षिपद्गणिका। ततो गणिका स्ववाञ्छितं कृत्वा पुनः पश्चादूमिका-IIG मार्पयत् तस्मै । अखण्डितव्रतः सोऽपि श्रेष्ठी स्वस्थानमागमत् । अप्रेक्ष्य नर्मदां स्वगृहे क्षुब्धः पप्रच्छ सेवकान् ।। विलोकिताऽपि सा न दृष्टा तेन यदा तदाऽतीव दुःख्यभूत् । वीरदासो चिन्तयति स्म-याऽपजहे सतीमेतां, निर्मायां । मायया ध्रुवम् । सा कथं विद्यमानेऽत्र, मयि प्रकटयिष्यति ? ॥ १॥ चिन्तयित्वेति भाण्डानि बहूनि समादाय खपुरं प्रति गन्तुकामो नृपमापृच्छय चचाल । क्रमागुपुरं गतो वीरदासः। ततो वीरदासेन तच्छुद्ध्यै शुद्धधीजिनदासश्चालितो बर्बरकूलं प्रति । तत्र गतः सन् जिनदासो नर्मदां विलोकयन् न प्राप क्वापि तच्छुद्धिं च । इतश्च-गणिका वीरदासे चलिते सति नर्मदां प्रति प्राह-हिरण्यमुपार्जयान्यपुरुषरञ्जनेन। भद्रे ! वेश्यात्वमादृत्य, वजन्म सफलीकुरु । उर्वशीव महेन्द्रस्य, मान्या भव महीभुजः ॥ १॥ तच्छ्रुत्वा विधुरा हस्तौ, धुनाना नर्मदाऽवदत् । जीवन्त्याः शीलमाणिक्य, कोऽन्यो मे हर्तुमिच्छति ? ॥ २ ॥वेश्याऽऽह सफलं जन्मास्माकमेव महीतले।
Jain Educa
t ional
For Private Personel Use Only
P
ww.jainelibrary.org