________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ २८५ ॥
Jain Education
शोकं सर्वथा त्यक्त्वा व्रतग्रहणतत्पराऽभूत् सा । इतश्च वीरदासाख्यस्तस्याः पितृव्यो विवेकधीर्व्रजन् बर्बरकूलं | नर्मदासुन्दर्यलङ्कृतं प्रदेशमगात् । सा पितृव्यं तत्रागतं दृष्ट्वा मुक्तखरं रुरोद । स पितृव्यः पप्रच्छ - किमेकाकिनी त्वं वत्से ! दृश्यसे । ततः सा सर्वं चरितं न्यवेदयत् । निन्दन् कर्मस्थितिं नर्मदासुन्दरीमादाय संप्राप्य बर्बरकूलं बहिः सार्थमवासयत् । महासतीं निवेश्य प्रत्यग्रे वस्त्रमण्डपे उपदामादाय स्वयं राजसभां ययौ । राज्ञा शुल्के मुक्ते वीरदासस्तत्र ऋयाणकक्रयविक्रयौ कुरुते स्म । इतोऽस्ति हरिणी नाम गणिका विश्रुता । भूपस्य प्रसादपात्रं । सर्वसौभाग्यसंपत् । सा तत्र विद्यते स्म । तत्र सांयात्रिकेभ्यो दीनारानष्टोत्तरशतं सा प्रतिवर्ष गृह्णातीति कृता व्यवस्था राज्ञा । सा वेश्या वीरदासमाह्वातुं दासीं प्रैषीत् । स्वदारसन्तुष्टः स तां निराकरोत् । अथोक्तायां स्थितौ धनं तस्यै तदार्पयत् । साऽपि दासी तत्सर्वं धनं खखामिन्यै हरिण्यै ददौ । गणिका प्राह- किमे भिर्धनैः ?, तं वीरदासमिहानय । ततो दासी प्रपञ्चेन तं तत्रानिनाय । वेश्या हावभावादिभिः श्रेष्ठिनं क्षोभयितुं प्रचक्रमे । किञ्चित् कपटं विचिन्त्य श्रेष्ठिहस्ते उत्कृष्टां मुद्रिकां दृष्ट्वा जग्राह । तां मुद्रिकां प्रच्छन्नं दासीहस्तेऽर्पयित्वा प्राह-गच्छ त्वं वीरदासस्योत्तारके या स्त्री वर्तते तस्या अग्रे इमां मुद्रिकामभिज्ञानं दर्शयित्वा तामत्रा -
tional
For Private & Personal Use Only
नर्मदासुं० चरित्रम् ।
॥ २८५ ॥
w.jainelibrary.org