SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ १२ विभागे ॥ २८४ ॥ Jain Educatio मिव ॥ ३ ॥ यावत्तस्यामदुष्टायां किश्चित् प्रतिकूलं कर्तुं चिन्तयति वणिक् तावत् निर्यामकः कूपस्थितः प्राच्चैरवोचत्स्थापयन्तु क्षिप्रं पोतवस्त्रं पातयन्त्वधः । राक्षसद्वीपः समागतः । जलेन्धनादिसामग्री गृहणीध्वं जवादितः । श्रुत्वेति तथा सर्व विदधुः पोतवाहकाः । तत्र द्वीपे आर्षदत्तोऽपि मायया गूढमत्सरः नर्मदा सुन्दरीं रन्तुमनयत् कानने । क्वचित्सरस्तीरे कापि स्थिता । तस्याः नर्मदासुन्दर्या निद्रा समागात् । यदि हन्यते तदा महत्पापं स्त्रीहत्यादिकं लगति, इति ध्यात्वा सुप्तां तां मुक्त्वा महेश्वरदत्तो नष्टः । समेत्य पोतवाहजनान् प्राह सः । अथ केनचिद्याघ्रेण मम प्रिया भक्षिता । अहं तादृशीं प्रियां विना कथं भविष्यामि ? । इति रुदन्तं जना जगुः - खामिन् ! प्रियार्थे कः खेदं करोति ? । सा चेदू हता तर्हि नवीना वर्या भविष्यति । महेश्वरदत्तोऽवग्- | अत्रास्ति स दुर्द्धरव्याघ्रो राक्षसरूपधरः । तेन त्वरितं चल्यते । स्थातुमत्र क्षणमपि न युक्तम् । ततो यानं त्वरितं चालितं तैः । आर्षदत्तो दध्यौ च सा खैरिणी मुक्ता यत्तद्वरं कृतम् । क्रमाद्यवनद्वीपे गत्वा बहूवीं श्रियमर्जयित्वा महेश्वरदत्तः स्वपुरमागात् । मम प्रिया राक्षसेन भक्षितेति पित्रोः पुरः प्राह । ततः स्नुषायाः प्रेतकार्याणि कृत्वा महेभ्यकन्यां सुतं पर्यणाययतः पितरौ । इतश्च नर्मदासुन्दरी पञ्चनमस्कृतिं स्मरन्ती याव - For Private & Personal Use Only नर्मदासुं० चरित्रम् | ॥ २८४ ॥ Tw.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy