SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ भरते. ४८ Jain Education ततो महेश्वरदत्तः स्तोकैरेव दिनैर्नर्मदापुरं प्राप । मातामहादयोऽपि खजनाः सर्वे लोकलज्जया मिलिताः मिथ्या| त्ववासितमपि तं सच्चक्रुः । उचिताचारो जिनैरपि न मुच्यते । सोऽपि धैर्यगाम्भीर्यादिगुणैस्तोषयामास बान्धवान् | गीतैर्व्याधो मृगानिव । मातामहस्तमन्येद्युराख्यदुत्सङ्गसङ्गिनम् - वत्सारमच्चित्तमावर्जितं त्वया जाङ्गुल्याऽहिरिव । | यत्ते मनीषितं भवति तद्याचख । महेश्वरदत्तोऽवग् - नर्मदासुन्दरीं कन्यां मह्यं देहि । मातामहोऽवग् - वत्स ! | युक्तमुदीरितं त्वया, कुलं कुदृष्टिमत्त्वया कृतं, तेनाहं तुभ्यं मिथ्यात्ववासिताय न पुत्रीं दातुमीहे । पूर्वाराधित| ज्ञानात्सद्यो गुरुपार्श्वे ज्ञातार्हत्तत्त्वो महेश्वरदत्तो जगौ - आस्तां कुलं, किं तस्य कुलस्य चर्चया ? । किमुत्पत्तिं वीक्षन्ते जनाः पङ्कजादीनाम् ? | अहं तु जिनधर्म्माऽस्मि । सर्वैः परीक्षणैर्ज्ञेयः । इत्यादि प्रजल्प्य प्रत्याययामास तान् खजनान् । महेश्वरदत्ताय मातामहो नर्मदासुन्दरीं ददौ । महेश्वरदत्तो नर्मदासुन्दरीं परिणिन्ये । नर्मदासुन्दरी जैन - धर्मकर्मणि कर्म्मठा जिनेन्द्रशास्त्रमहेश्वरशास्त्रयोः सम्बन्धमुक्त्वा जिनधर्मकुशलं पतिं चक्रे । कियत्यपि काले गते । | श्वशुरादेरनुज्ञया भार्यायुक्तो महेश्वरदत्तो निजपुरे गतः । नर्मदासुन्दरी ऋषिदत्तायाः पदयोर्नमन्ती मुदमत्यन्तं | चकार । नर्मदासुन्दरी सुशीला सर्वकुटुम्बं मिथ्यात्वविषं त्याजयामास । नर्मदासुंदरी तथा चलति तथा जल्पति For Private & Personal Use Only lainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy