________________
किमेषा पातालात् पातालकुमारी अत्रागात् ? । अथवा सुरी रतिः प्रीतिः श्रीहर्लिक्ष्मीर्वा ?। कुबेरदत्तं पप्रच्छ रुद्रदत्तःकस्यैषा कन्या? । कुबेरदत्तोऽवग-ऋषभसेनस्य सुश्रावकस्य पुत्री ऋषिदत्ता । श्रावकं विनाऽसौ श्रेष्ठी स्वपुत्रीय मिथ्यादृशां न दत्ते । ततस्तेन रुद्रदत्तेन जैनमुनिपार्श्वे जैनधर्मः शिक्षितः सम्यक् । एकदा भोजनार्थ निमत्रितः ।।
ऋषभसेनेन । स मायावी विधिवजिनं प्रपूज्य बुभुजे । क्रमात्तं सुश्रावकं रुद्रदत्तं मत्वा श्रेष्ठी वपुत्रीमृषिदत्तां । Malतस्मै ददौ। मायां विना दुःशकं कार्य न सिध्यति। सविस्तरं तां कन्यां परिणीय रुद्रदत्तोऽत्यर्थ स्त्रं कृतार्थ मन्यते।
कतिपयैर्दिनैः श्वशुरमापृच्छय लक्ष्मी बह्वीमुपायं ऋषिदत्तायुक् स्वपुरं ययौ । मातापित्रोमिलितः प्रियायुक् । हृष्टौ । पितरौ । रुद्रदत्तो जैनधर्ममपुण्यवान् रत्नमिवात्याक्षीत् । क्रमाद् ऋषिदत्तापि जैनधर्ममत्यजतातस्य पत्युः संसर्गात् ।। यतः-अंबस्स य निंबस्स य दुण्हंपिय समागयाइं मूलाई । संसग्गीइ विणटो, अंबो निंबत्तणं पत्तो ॥१॥ कथितशवमिलितो वायुदौर्गन्ध्यं किमु नाश्नुते ?। मत्वेति क्रमाद् ऋषिदत्तां तादृशीं पितरौ जन्मविवाहादावपि नाकारयामासतुः । ऋषिदत्ता क्रमान्महेश्वरदत्ताख्यं पुत्रमसूत।क्रमेण यौवनं प्राप। सोऽपि कलाः सकला अस्त्रधर्माद्या जग्राह। इतः ऋषभसेनपुत्रः सहदेवः श्रीदत्तश्रेष्ठिपुत्री सुन्दरी परिणिन्ये । क्रमात् सा गर्भ धार सत्स्वप्नसूचितम्। तस्या ।
Jain Education
NY
For Private Personel Use Only
HLinelibrary.org