________________
योजनानां ततो भूमेरतीता पञ्चविंशतिः ॥ १॥ अमी हि मध्यमा वाहा, यदि स्युः पुनरुत्तमाः । शताई योजनानां तल्लङ्घामि क्षणवत् प्रभो!॥ २॥अक्षवृक्षं फलितं वीक्ष्य राजा वर्त्मन्यवदत्-अस्मिन् वृक्षे कियन्ति फलानि । सन्ति ?। कुजोऽवग्-त्वमेव फलानामत्र सङ्ख्यां कुरु । राज्ञोक्तं-अष्टादश सहस्राणि फलानि सन्त्यत्र । ततः कुन टा मुष्टिना ताडिते वृक्षे फलानि पतितानि भुवि । गणितानि कुजेन । तावन्त्येवाभूवन फलानि । राजाऽवग्-एवं यदि ।
क्रीडा क्रियते तर्हि तत्र गमनं दुःशकम् । ततो राज्ञा कुजपादिश्वचालनविद्या गृहीता । कुजेन फलगणनका विद्या भूपपाद्गृिहीता । ततो रथो रविरथस्य स्पर्धया चचाल । इतो भैमी तस्यां निशि स्वप्नं दृष्ट्वा पितुः पुरः प्राह-तात ! अद्य निर्वृत्तिर्देवी मां निन्ये कोशलावनम् । तया देव्या तत्र मुक्त्वा रसालफलं दत्तं विकचं सरसीरुहं च। विहगः कोऽपि तत्तरोराम्राद्भूतले पपात । भीमोऽप्याह-वत्से ! त्वया दृष्टः स्वप्नोऽयमुत्तमस्तेन पतिस्तव मिलिष्यति यतः । इत्थं तयोः पितृपुत्र्योर्तियतोर्दधिपर्णः पुरप्रतोल्यामागात् । सर्वेषु भूपेषु भूपस्थानकस्थितेषु भीमः सर्वेषां गौरवं चक्रे । दधिपर्णस्योत्तारके रविपाकरसवतीं निष्पद्यमानां वीक्ष्य प्रच्छन्नं भिक्षाछलाद्दमयन्ती | अन्नमानयामास । तदन्नमाखाद्य भैमी प्राह ताताग्रे-कुनो वा यदिवा खञ्जो, नल एष महीपते ! । रूपपरावृत्ति
JainEducation
For Private Personal use only