SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ कर्मयोगान्मया स्तैन्यं भूपगृहे कृतं। त्वया मोचितश्च । ततस्तं दयास्पदं दृष्ट्वा जगाद भीमपुत्री-वत्स! मद्गिरा दीक्षामादत्व । ततो लघुकर्मा स दीक्षां जग्राह । विप्रो हरिमित्राख्यः कुण्डिनपुरवास्तव्यो राज्ञो मिलित्वा । चन्द्रयशोऽन्तिके ययौ । चन्द्रयशसा स्वस्वसुः कुशलं पृष्टो हरिमित्रोऽवग-नलः कूबरेण भ्रात्रा रममाणः पृथ्वी हारयित्वा सप्रियः क्वापि वने गतः । तत्रापि भैमी मुक्त्वा नलः क्वापि गतः । तच्छ्रुत्वा भीमभूपः । पुष्पदन्त्यपि दुःखितावभूताम् । तयोः शुद्ध्यर्थमहमभ्यर्थ्य ताभ्यां प्रेषितोऽस्मि। प्रतिग्रामं प्रतिपुरं प्रत्यरण्यं मया । विलोकिताऽपि सा न दृष्टा । ततोऽत्राधुनाऽऽयातः । श्रुत्वेति चन्द्रयशा रुदन्ती राजकुलमपि सर्व रोदयामास । भुत्क्षामो विप्रस्तदा भोजनार्थ दानशालायां गतो। भैमीं दृष्ट्वा सविस्मयो नत्वा तां प्राह-भो भैमि ! त्वं मया । चिरं भ्रमताऽद्य दृष्टा। हा हा गृहस्थिते रत्ने मूढो भूतले भ्रमति। ततो विप्रो नृपं मातृस्वसारं भैम्याः स्वरूपं प्रकाश्य । प्रामोदयत्तमाम् । तदा शोकाश्रूणि हर्षाश्रूणि जायमानानि स्याद्वादं स्थापयामासुः । ततश्चन्द्रयशाः सत्रागारे । द्रुतं गत्वा गाढमालिजय भीमजां प्रति जगाद-धिङ् मां न मूढयाऽज्ञायि, यया त्वं भागिनेय्यपि।वत्से ! सङ्गोपनं कृत्वा, वञ्चिताऽहं कथं त्वया ? ॥१॥ ततस्तां स्वगृहे नीत्वा गन्धवारिभिरस्नापयत् । तां च दूकूले पर्य Jain Educa t ional For Private & Personel Use Only Harjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy