SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते. श्वरवृचौ २विभागे ॥२७७॥ समाप्तीकृत्य तस्मिन् मार्गे चचाल । चलन्ती वने सैकाकिनी पतिता । अन्यदा राक्षसी क्रूराशया हन्तुं तां । दमयन्तीसमायान्ती तस्याः शीलप्रभावेण स्तम्भिता। ततः सा राक्षसी तां क्षमयित्वा स्वस्थानमगात् । गच्छन्ती क्रमात् चरित्रम् । तृषार्ता शीलमाहात्म्यात् पाणिना भूतले महतीमाविश्वकार नदीं भैमी । तत्र स्नाता सा। पयश्च पपौ । अन्यदाधनदेवसार्थेशेन समं भैमी अचलपुरे ययौ । बहिश्च स्थिता । तत्र ऋतुपर्णभूपतेर्भार्या चन्द्रयशानाम्न्यभूत् । सा च भैम्या मातृवसा । तया दासीमुखाबहिरेका दिव्यरूपा स्त्री समेता श्रुता । ततश्चन्द्रयशसाऽनीयत | भैमी स्वगृहे। मातृष्वस्रा नलवल्लभेति न ज्ञाता । भैम्या च वसम्बन्धो न ज्ञापितः । पृष्टाऽपि खस्वरूपं गूढ-d तया न प्रकाशितवती । तथापि तां भैमी पुत्रीमिव गौरवेण चन्द्रयशा ददर्श । भैमी सत्रे दानं ददाना मातृ-| खस्रनुज्ञयाऽऽस्ते । पिङ्गलनामकं चौरं वधाय चलितं भैमी दययाऽमोचयद्। भैम्या अर्पितः। तयोपलक्षितो वसन्तसार्थस्य भृत्यः। पृष्टश्च तया प्राह-यदा श्रीतापसपुराझैमी निर्ययौ तदा सार्थवाहो भैमीवियोगदुःखितः श्रीयशोभद्रसूरिणा बोधितः सप्ताहप्रान्तेऽभुंक्त । अथान्यदा वर्यप्राभृतै रत्नस्वर्णादिभिः कूबरं नृपं सन्तोष्य तापसपुरस्वामी राजाऽभूत् सार्थनायकः स्वयं । सम्प्रति वसन्तशेखरभूपो राज्यं प्रशास्ति । अहमपमानितोऽत्रागाम् । Jain Education dha For Private & Personal Use Only MPIEnelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy