SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ अस्माकं पुण्ययोगेन, कुतोऽत्र समुपेयुषी ?॥२॥ कासि त्वं च ?, साऽप्याख्यत्-नलदासी, नलस्तु विदेशं गतः। ततः सार्थेशस्त्वं मम भगिनीतिकृत्वा तां खपाधै स्थापयामास । क्रमात्तत्र प्रावृट्कालः समागात् । साथ। | गन्तुमग्रेऽशक्नुवन्तं चिरं विलम्बं जायमानं ज्ञात्वा सार्थेशमनापृच्छय निर्ययावेकाकिनी । गच्छन्ती पुरो राक्षस दुरालोकं प्रायान्तं ससौष्ठवमाचष्ट-भो राक्षस ! यदि त्वं मां स्पृशसि तदा तव श्वभ्रपातो भविष्यति । अथवा त्वं भस्मसाद्भविष्यसि । इति तस्याः सत्त्ववचनात् सन्तुष्टो राक्षसः प्राह-भो स्त्रि ! किं तेऽभीष्टं करोमि ? । साऽपि तमाख्यत्-वद तर्हि त्वं ज्ञानेन कदा पत्या सह संयोगो मे भावी ?। तेनोक्तं-द्वादशानां वर्षाणां प्रान्ते संयोगो N|| भविष्यति तव । सती प्राह-तवोक्तं भवतु । पलादोऽवग्-तव स्वस्ति भवतु। अहं यास्यामि खस्थाने । तस्मिन् ॥ गते सती अभिग्रहान् ललौ । ताम्बूलं रक्तवस्त्राणि, पुष्पाण्याभरणानि च । विकृतीश्च ग्रहीष्यामि, नार्वाक् प्रियसमागमात् ॥१॥ क्रमेण कन्दरां महतीं प्राप्ता । श्रीशान्तिनाथस्य मृन्मयी प्रतिमां कृत्वा पुष्पैरर्चयन्ती कुर्वाणा स तपस्तीवं खभावपतितैः पत्रैः पारणं चकार । परमेष्ठिनमस्कारस्मरणपरा कियन्तं कालमभ्यवाहयत् सा । सा-1 शोऽपि क्रमात्तत्रागतस्तां जिनपूजापरां ददर्श । सार्थेशोऽवग्-भो आयें ! इयं कस्य प्रतिमा ? । सा जगौ भैमी Jain Education For Private Personel Use Only wittainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy