________________
॥ श्रीभरतेश्वरवृत्ती २ विभागे
॥ २७४ ॥
Jain Educatio
| पुमान् सूर्यप्रसादतः ॥ ३ ॥ दुर्दैवात् कूबरे बन्धौ, साम्प्रतं स दुरोदरे । हारयित्वा महीं भार्यायुक्तः कापि गतो मृतः ॥ ४ ॥ दधिपर्णस्तदाकर्ण्य गुणांस्तस्य च स्मरन् क्षणं शोकपरो भूत्वा दध्यौ - संसारस्य स्थितिरीदृशी | विद्यते । यतः- श्रियो विद्युहोलाः कतिपयदिनं यौवनमिदं, सुखं दुःखामातं वपुरनियतं व्याधिविधुरम् । दुरापाः सन्तोऽन्धौ बहुभिरथवा किं प्रलपितैः ?, असारः संसारस्तदिह निपुणं जाग्रत जनाः ॥ १॥ अन्यदा तत्पार्श्वे राजा | पप्रच्छ - सूर्यपाकरसवती त्वया ज्ञाता भाविनी तां दर्शयैकशः । बहुशोऽभ्यर्थितो राज्ञा, विद्यां वैवखतीं स्मरन् । सद्यो न्यस्यातपे स्थालीं, सम्पूर्णां शालितन्दुलैः ॥ १ ॥ कृत्वा रसवतीं सूर्यपाकां हुण्डिकसूपकृत् । सर्वेषां भोजनिःशेषरसपेशलाम् ॥ २ ॥ ग्रामेषु पञ्चशतमितेषु राज्ञा दीयमानेषु स सूपकृत् सूपकारकृत्यं जग्राह । | कुनः पुनः पृष्टो भूपेन- भो तवाभीष्टं विद्यते तल्लाहि । सोऽवदत्-देव ! यावति भूपीठे तव शासनं जागर्ति तावति द्यूतं मद्यं मांसं च प्रतिषिध्यतां, बहुपापमूलत्वात् । यतः - " द्यूतं च मांसं च०” ॥१॥ तत्सर्वं राज्ञा प्रतिपन्नं द्यूतादिनिषेधनम् । सूपकारः समाधिना तिष्ठन् राज्ञो मान्योऽभूत् । अन्येद्युः सरसीतीरस्थतरुच्छायामुपेयुषः | कुजस्य कश्चिदेशान्तरान्नर आगात्तत्र । कुब्जं सर्वाङ्गसुन्दरं दृष्ट्वा सोऽपि गीतगोष्ठीं पृच्छ्यमानः श्लोकद्वयमाह
यामास,
ional
For Private & Personal Use Only
दमयन्ती
| चरित्रम् |
॥ २७४ ॥
Jainelibrary.org