________________
यावत्तत्र नलो याति तावन्मदोन्मत्तः पट्टहस्ती आलानस्तम्भमुन्मूल्य पादपमनुष्यादि मर्दयन् चतुष्पथमध्ये । निःससार । तं हस्तिनं तादृशं दृष्ट्वा राजा जगौ-भो भोः शृण्वन्तु यः कश्चिदिभं वशयितुं क्षमः । तस्य निःशेष-ICH सम्पत्तिपूरणे प्रभवाम्यहम् ॥१॥ श्रुत्वेति श्रीनलो जाग्रदिक्रमो गजमुद्दिश्य दधावे । मा मा म्रियख कुब्जेति । वार्यमाणोऽपि पूर्जनैस्तं हन्तुं बलाबलमविमृश्य डुढौके नलः । प्राहेति-रेरे दुरात्मन् मातङ्ग, मा वधीः स्त्रीशिशूनमून् । अयमग्रेसरस्तेऽहं, मदोन्मत्तैककेसरी ॥१॥ क्रोधान्धं तं गजं चिरं भ्रामयित्वा खोत्तरीयमग्रे प्रलम्बं क्षिप्त्वा तस्य पृष्ठौ गतो नलः । यावद्गजस्तदुत्तरीयं पुरुषभ्रान्त्या त्रोटयामास तावत् चरणं दत्त्वा तस्ये-IN भस्य स्कन्धमारुरोह । मर्मस्थाने तं गजं तथा हतवान्नलो यथा स्तम्भवन्निश्चलोऽभूत् । तं हस्तिनमालानस्तम्भे बबन्ध । नलस्य तादृशं बलं दृष्ट्वा दधिपर्णमहीपतिरस्य नलस्य गले रत्नमालां क्षेपयामास । ततो दधिपर्ण-IN भूपस्तं वस्त्रादिना सन्मान्य खपार्थेऽस्थापयत्। पृष्टं च-को वंशस्तवेति, कुब्जः प्राह-जन्मभूमिमनोज्ञश्रीः, कोशला मम भूपते ! । सर्वखजनवर्गोऽपि, तत्रैव क्षेममश्नुते ॥१॥ अहं च सूपकारोऽस्मि, हुंडिको नलभूपतेः । तत एव विदामास, प्रीतितः सकलाः कलाः ॥२॥ किं चान्यद्रूपते ! सूर्यपाका रसवती भुवि । स एव बेचि नान्वख,
Jain Educat
i onal
For Private & Personel Use Only
wrjainelibrary.org