SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्राह-भैम्या भाले इदृक् तिलकं केन कर्मणा शुभेनाभूत् ?, यतिः प्राह-असौ पूर्वभवे एकैकं जिनं प्रति चतुविंशतिमाचाम्लान् चक्रे । तस्य तपस उद्यापने चतुर्विंशतिजिनानां तिलकांश्चकार । तस्य तपसः प्रभावादस्या भाले ईदृशं तिलकं रविजित्वरमभूत् । क्रमेण तस्य तपसः प्रभावादसौ कल्याणभाजनं भविष्यति । श्रुत्वैतद्रोर्वचनं बहवो जनास्तत्र तपः कर्तुं लग्नाः। निषधः पुत्रादिपरिवारयुग् वपुरमागात् । पौरैः कृतमहोत्सवो राजा दानं ददानः स्वगृहमागात् । नलो नानाविधदानैः खकीर्ति चतुर्दिग्व्यापिनी चक्रे । नले राज्यं वितीर्य कबरे च युवराजपदवीं दत्त्वा निषधः संयममादाय तपस्तप्त्वा वर्गमगात् । त्रिवर्गसाधनपरः श्रीनलश्चिरं राज्यं पालया| मास । क्रमेण साधयामास बहून् देशान् । महद्राज्यं दृष्ट्वा कूबरः कुटिलाशयो नलस्य राज्यं ग्रहीतुं मनो दधे नलस्तु निर्मलस्वान्तोऽपि तेन कूबरेण तद्राज्यं ग्रहीतुं द्यूतायोधमं कारितः । नलः कूबरेण भ्रात्रा सह रममाणो । दमयन्त्यादिभिर्वार्यमाणोऽपि सर्व राज्यं हारयामास । सानन्दस्ततः कूबरोऽवग-न्यजेमां महीं मदीयाम् । यतः-परकीयं धनं नैव, ग्रहीतव्यं हितेच्छुना । परस्वहरणात् श्वभ्रपातो भवति देहिनाम् ॥१॥ ततो नलः । प्रियायुतो वनं प्रति चचाल । वने एकाकी नलः प्रियायुतः पादचारी चलन् कण्टकादिव्यथां भूयसी सहते ।। Jain Educat onal For Private Personal Use Only vi.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy