________________
मरते. ४६
Jain Education
| शशी तस्याः पिशाचकी तेनाद्यापि भूतपतिरेनं न सेवते । अनुरूपवराप्राप्त्या साऽष्टवार्षिका वर्द्धमाना मातापित्रोर्मनो वरविलोकन चिन्ताब्धौ पातयामास । यतः - जम्मंतीए सोगो वडुंतीए य बढए चिंता । परिणीयाए दंडो, जुवइपिया दुक्खओ निच्चं ॥ १ ॥ ततो राज्ञा खयंवरमण्डपो मण्डितः । आकारिता बहवो नृपकुमाराः । तदानीं दूतेन निषधो भूपो विज्ञप्तः नलकूबराभ्यां पुत्राभ्यां तत्र स्वयंवरमण्डपे समागाद् । भीमो भूपः सर्वेषां संमुखयानवासनादिना सत्कारं चकार । अथ प्रभाते सर्वे भूपाः सारालङ्काराः सर्वश्रिया मश्चेषूपविष्टाः । दवदन्ती सुखासनारूढा सालङ्कारसखिपरिवारयुता स्वयंवरमण्डपे समागात् । तदा सर्वे लोकाः स्वस्वकार्यं विमुच्य ययुः । | यतः- “थीयह तिन्नि पियारडा कलिकज्जल सिंदूर ०" सुखासनासीना दवदन्ती प्रतीहारीवर्ण्यमानान् नृपान् अङ्गवङ्गतिलङ्गादिदेशेशान् मुक्त्वा क्रमान्नलपार्श्वे समागात् । तत्र वर्ण्यमानगुणां रूपश्रियं च तस्य दृष्ट्वा दवदन्ती हट्टा|ऽनुरागं दधौ । तदा दवदन्तीमिति वर्णयन्ति स्त्रीजनाः । पादयोः शुशुभे तस्याः, सरसो यावकद्रवः । अनुरा इव क्षोणीभुजां लग्नोऽंगजोऽङ्गवान् ॥ १ ॥ प्रशस्तिरिव कन्दर्पभूमिपालस्य जाग्रती । कपोलयोर्बभौ तस्याः, | कस्तुरीपत्रवल्लरी ॥ २ ॥ रराज जुटके तस्या, मल्लिकामाल्यमुज्ज्वलम् । नक्षत्राणीव संप्रापुर्मुखचन्द्रमुपासितुम्
For Private & Personal Use Only
Hainelibrary.org