SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे ॥ २७० ॥ Jain Educatio 1 | जगाम । नमियतिः क्रमात् सर्वक्षीणकर्मा मुक्तिं ययौ । साध्वी मदनरेखाऽपि संयतिनीपार्श्वे शुद्धं तपस्तप्त्वा कर्मक्षयात् केवलज्ञानमवाप्य मुक्तिं ययौ । इति मदनरेखा कथा समाप्ता ॥ ४ ॥ सङ्कटे विकटेऽत्यन्तमायाते सति देहिभिः । न मोक्तव्यो वृषः सम्यग् दमयन्तीव कर्हिचित् ॥ १ ॥ तथाहि — कोशलायां पुरि निषधो नृपो राज्यं न्यायाध्वना करोति स्म । तस्य लावण्यसुन्दरी प्रिया सच्छी| लशालिनी बभूव । तयोः क्रमान्नलकूबरौ पुत्रावभूताम् । इतो विदेहदेशमण्डिते कुण्डिनपुरे भीमभूपतिर्निःसीम | विक्रमः पृथ्वीं शास्ति । तस्य प्रिया पुष्पवती सत्स्वप्नसूचितां पुत्रीं समये प्रासूत । तस्याः पूर्वशुभकर्मानुभाव हालस्थले तिलकं रविरिव देदीप्यमानमस्ति । षष्ठीजागरणमहोत्सवं कृत्वा तस्याः पुत्र्या दवदन्तीति नामा | दाद्राजा | रिखन्ती क्रमात् पादरणन्मधुरनूपुरा दवदन्ती मातापित्रोर्मुदं चकार । क्रमाद्वर्धमाना जाग्रत्सौभाग्य | वैभवा दवदन्ती धर्मकर्मकलाकुशला बभूव । अन्यदा भाविनः श्रीशान्तिजिनस्य हेमप्रतिमां वितीर्य निर्वृत्ति देवी दवदन्तीं प्राह - भवत्या पूजनीयैव, नित्यं कल्याणकारिणी । भविष्यति तवाह्नाय, महोदयसुखप्रदा ॥ १ ततो दवदन्ती तां प्रतिमां गृहचैत्यान्तर्निदधे । भैमी सा क्रमाद्युवमनोमोहनं यौवनं प्राप । रूपश्रिया जितः । ational For Private & Personal Use Only दमयन्तीवतं । v.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy