SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ मम व्रतं । किन्तु लोके खस्वकार्यहानिर्दुःखस्य कारणं । ततोऽहमपि खकार्यं कुर्वे । किं परं जल्पनेन ? । हरिराहअधुना ते गृहाणि अन्तःपुराणि प्रज्वलमानानि सन्ति, किमुपेक्ष्यन्ते?, तव दूषणं लगति स्म । आश्रितस्योपेक्षणं । पापं । त्वं तु चतुरोऽसि । नमिः प्राह-मम गृहाणि न सन्ति । अन्तःपुराणि न सन्ति । पुनराह हरिः पुर्या, प्रा-IN कारमतिदुर्गमम् । नानायत्रयुतं कारयित्वा राजन् ! परिव्रजेः ॥ १॥राजर्षिः प्राह भो भद्र!, संयमो नगरं मम । शमाख्यो विहितस्तत्र, प्राकारो जययन्त्रवान् ॥२॥ इन्द्रोऽवोचन्निवासाय, लोकानां सुमनोहरान् । प्रासादान् । कारयित्वा भो, क्षत्रिय ! प्रव्रजेस्ततः॥३॥ मुनिः प्रोचे कुधीरेव, कुर्यात् पथि वहन् गृहम् । निश्चलं यत्र संस्थानं, युक्तं तत्रैव मन्दिरम् ॥ ४॥ हरिराह निगृह्यादौ, चौरान् सुस्थं पुरं कुरु । यत्याह चौरा रागाद्या, निगृहीताश्च ते । मया ॥ ५॥ वासवः प्राह केचिन्न, नमन्ति च नवोद्दताः। पार्थिवास्तान्विनिर्जित्य, प्रव्रज्यां कुरु सत्तम ! ॥६॥ यत्याह लक्षसङ्ख्यातान्, सङ्ग्रामे सुभटान् जयेत् । यश्चात्मानं जयेदेकमेष मे परमो जयः॥ ७॥ इत्यादि शक्रनमिजल्पनं श्रीउत्तराध्ययनाज्ञातव्यम्। इत्यादि विप्रप्रोक्तमवगणय्य यावन्नमिरग्रतोऽचालीत्तावदिन्द्रः स्वरूपस्थो । नमि प्रति प्राह-त्वं धन्यस्त्वं कृतार्थः त्वं सर्वभावारिजयी जगदुत्कृष्टस्वभावः । इति स्तुतिं कृत्वा शक्रः स्वर्ग Jain Educat i on For Private & Personel Use Only w.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy