SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वरवृत्तौ २ विभागे ॥ २६९ ॥ Jain Educatio स्तोकैरेव तैः। एवमेकत्वे महासुखम् । यथा- कङ्कणैर्भूरिभिर्दुःखं, स्वल्पैः खल्पतरैः सुखम् । यावदस्यैव दृष्टान्ता - | देकाकित्वे महासुखम् ॥१॥ उच्यते - यथा यथा महातत्रं, विस्ताराश्च यथा यथा । तथा तथा महद्दुःखं, सुखं तु न तथा तथा ॥ २ ॥ क्लेशाय विस्तराः सर्वे, संख्येयास्तु सुखावहाः । परार्थं विस्तराः सर्वे, त्यागमात्महितं विदुः ॥ ३ ॥ ततो नमिर्दध्यौ - यदि मम दाहज्वरः प्रशमिष्यति तदाऽवश्यं मया दीक्षा ग्राह्या । ध्यात्वेति यावन्नभिः सुप्तः | तावदाहज्वरः प्रशशाम । प्रातर्वाद्यनिनादैः प्रबुद्धो भूपो दध्यौ - अहो अद्य मया स्वप्ने ऐरावणकुम्भी शैलराजश्च दृष्टः । स च वर्यो भवति तेन मे रोगो गतः । यतः - देवता यतयो गावः, पितरो लिङ्गिनो नृपाः । यद्वदन्ति नरं | स्वप्नः, तत्तथैव भविष्यति ॥ १॥ तं शैलराजं पुनः पुनर्ध्यायतो नमेर्जातिस्मृतिरभूत् । पूर्वभवे मया श्रामण्यं पालितं । ततोऽहं मृतः प्राणते सुरोऽभूवम् । ततो नमिः खपुत्रं राज्येऽभिषिच्य देवतादत्तरजोहरणः संयमं प्रतिपन्नवान् । तदा शक्रो द्विजवेषधरो नमिं परीक्षितुमाययौ । नमेरग्रे भूत्वा द्विजः प्राह-भो राजन् ! त्वया तृणवद्राज्यं सान्तः पुरं त्यक्त्वा संयमो गृहीतो यत्तत्सुन्दरम् । त्वं तु जीवदयां पालयितुं दीक्षामग्रहीः । त्वद्रतग्रहणे एता अन्तः | पुरीस्त्रियो रोदनं कुर्वाणाः सन्ति । तदिदमयुक्तं व्रतग्रहणं । पूर्वापरबाधकम् । ततो नमिमुनिर्वृते स्म - दुःखकारणं नो Clonal For Private & Personal Use Only मदनरेखावृत्तं । ॥ २६९ ॥ jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy