________________
कृतम् । त्वं तु भ्राता न ज्ञातः। अधुना तु मात्रा ज्ञापितं-त्वं मम भ्राता। अतः परं मम राज्यं न कार्यम् । अहं त्वग्रेऽपि राज्यं त्यक्तुकामोऽस्मि । तव योग्यताऽस्ति राज्यभारधरणे । नमिः प्राह-ममापि राज्यं न रोचते, अहमपि संयमं ग्रहीष्यामि । ज्येष्ठभ्राताऽवग्-ज्येष्ठभ्रात्रा लघवे भ्रात्रे राज्यं दत्त्वा दीक्षा गृह्यते तदा युक्तमेव । एवं भ्रातरं नमि पर्यवसाय्य चन्द्रयशा महामहपूर्वं व्रतं जग्राह । ततो नमिः प्रतापी राज्यं कुरुते न्यायाध्वना । अन्यदा पाण्मासिके दाहज्वरे नमेर्जायमाने वैद्याश्चिकित्सां चक्रुः। ततो मनागपि गुणो नाभूत् । दाहज्वरशान्तये भूपप्रियाः सर्वाश्चन्दनं धर्षयन्ति स्म । तासां बाहुवलयझणत्कारारावैर्नमेरत्यन्तं वेदनाऽभूत् । राज्ञोक्तं-अयं को all दारुणो रवः प्रभवति ? । सेवकैश्चन्दनघर्षणादिवरूपं निवेदितम् । ततो राज्ञोक्तं-एतासां पञ्चशतस्य प्रियाणां
हस्तेभ्य एकैकं वलयमुत्तारयत । तत एकैकस्मिन् वलये उत्तारिते मनाक् सुखीजातो राजा । एवं क्रमात् सर्वेषु IN वलयेषूत्तारितेषु राजाऽत्यन्तं सुख्यभूत् । तथैकैकं वलयं मङ्गलार्थं स्थापितम् । ततो राजाऽवग-किं प्रिया अधुना
चन्दनं न घर्षयन्त्यः सन्ति यत्साम्प्रतं वलयशब्दो न श्रूयते । तदा मञिजनो वलयोत्तारणस्वरूपं जगौ । एतत् श्रुत्वा राजा सञ्जातवैराग्यो दध्यौ-भूरिसंयोगो दुःखाय भवति, यथा भूरिभिः कङ्कणशब्दैर्दुःखमभूत्, न तथा
Jain Educatio
n
al
For Private & Personel Use Only
MAmainelibrary.org