SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे ॥ २६८ ॥ Jain Education नइवेगसंनिभे, पावजीव ! किमयं न बुज्झसे ? ||२||” रहसि साध्वी नमेरग्रे इदं प्राह - राजन्नस्मिन् भवे दुःखदायके | राज्यतः खलु । गच्छति नरके घोरे, जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्ठभ्रात्रा समं युद्धं कर्तुं न युज्यते तव । नमिः प्राह कथं ज्येष्ठ भ्राता स विद्यते मम ॥ २ ॥ ततः साध्व्या चन्द्रयशसा सह सोदरभवसम्बन्धः प्रोक्तः । प्रत्ययार्थं पुष्पमाला पृष्टा - अहं कस्याः पुत्रः ? । ततः पुष्पमालया प्रोक्तं- त्वमस्याः पुत्रोऽसि । ततस्तया मुद्रायुतं कम्बलरत्नं दर्शितम् । ततो यदा रणान्न नमिर्विरराम तदा चन्द्रयशसः पार्श्वे गत्वा साध्वी धर्मोपदेशं ददौ । चन्द्रयशा जगाद - भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागाः । ततः साध्वी द्वितीयपुत्रभवनसम्बन्धः प्रोचे । अथ राजा जगौ - साम्प्रतं स मे भ्राता कुत्रास्ति ? । येन तव पुरं वेष्टितमस्ति स तव भ्राता । ततः चन्द्रयशा युद्धं मुक्त्वा भ्रातुर्मिलनाय चचाल । तं भ्रातरमागच्छन्तं श्रुत्वा नमिरपि मुक्त्वा मानं सम्मुखमुपेत्य ज्येष्ठभ्रातुः पादौ प्रणणाम | ज्येष्ठ भ्राताऽप्युत्थाय स्वयं सस्वजे । तदा तयोर्द्वयोर्भ्रात्रोर्मिलितयोर्हर्षोऽभूत् । तस्य स्वरूपं गुरुरपि न वेद । ततो महोत्सवपुरस्सरं चन्द्रयशा राजा नमिं पुरमध्ये प्रवेशयामास । द्वाभ्यां भ्रातृभ्यां सस्नेहं वन्दिता साध्वी । चन्द्रयशा नमेरग्रे जगौ - पितुर्मरणादनु राज्यभारधरणकपुत्राभावादियत्कालं मया राज्यं onal For Private & Personal Use Only मदनरेखावृत्तं । ॥ २६८ ॥ Jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy