________________
ततो रुष्टो नृपस्तं दूतं सभातो बहिः कर्षयामास । सोऽपि दूतो नृपस्य नमः पार्श्वे गत्वा सर्व व्यजिज्ञपत् । ततः कुपितो नमिः सर्वबलेन भेर्यादिखनपूर्णदिगन्तरं सुदर्शनपुरं प्रति चचाल । तं नर्मि बहुबलयुक्तमागच्छन्तमाकर्ण्य यावच्चन्द्रयशा राजा सम्मुखोऽचालीयुद्धाय तावच्छकुनैर्निषिद्धश्चन्द्रयशा मत्रिभिरिति विज्ञप्तः–बहिर्निर्गत्य । युद्धं कर्तुं न युज्यते तव । गोपुराणि पिधाय मध्यस्थैरेव युद्धं क्रियतां, वैरिबलाबले ज्ञात्वा पश्चाबहिनिसृत्य युद्धं करिष्यते । सोऽपि राजा मत्रिणोक्तं चकार । यतः-चित्तज्ञः शीलसपन्नो, वाग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान्, दूतः (मंत्री ) स्यात्सप्तभिर्गुणैः ॥१॥ नमिरेत्य तन्नगरं विष्वक् सेनया समवेष्टयत् । मिथो द्वयोर्भूपयोमहायुद्धे जायमाने जीवसंहारं मत्वा सहोदरयोईयोश्च कलिं वीक्ष्य सुव्रतार्यया ध्यातं यदहो संसारस्यास्यासारस्य । धिगस्तु, यत्र द्वावपि भ्रातरावज्ञानायुद्धं कुर्वन्तौ, गमिष्यतश्च नरकमिति ध्यात्वा सुव्रतार्या गणिनीं समापृच्छ्य साध्वीपरिवारयुक् चचाल । सा साध्वी नमिचन्द्रयशसोर्युद्धं कुर्वतोरन्तरे भूत्वा नमिपार्श्वे समागात् । तदाऽभ्युत्थानपूर्वं नमिना साध्वी वन्दिता । ततः साध्वी धर्मोपदेशं ददौ-"चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो ! माणुसत्तं सुई सुद्धा, संजमंमि य वीरियं ॥१॥ सञ्झब्भरागजलबुब्बुओवमे, जीविएवि जलबिंदुचचले। जुव्वणे या
Jain Educat
i onal
For Private Personel Use Only
S
Mw.jainelibrary.org