SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २६७ ॥ Jain Education स्वरूपपराभूतामरीणां कन्यानामष्टोत्तरसहस्रस्य करान् कुमारो ग्राहितः । अथ पद्मरथो राजा योग्यं पुत्रं ज्ञात्वा | राज्ये न्यस्य श्रीज्ञानसागरसूरिपार्श्वे दीक्षां ललौ । तीव्रं तपः कृत्वा लब्धकेवलज्ञानः पद्मरथः शिवं ययौ । नमिराजा राज्यं कुर्वाणो नतानेकक्षमापालमौलिः शक्रसमोऽभूत् । इतश्च यस्यां रात्रौ मणिरथो युगबाहुं लघुभ्रातरं हतवान् तस्यामेव निशि सर्पदष्टो मणिरथो मृत्वा तुर्यनरके गतः । ततो मन्त्र्यादिभिर्विमृश्य द्वयोरपि सोदरयोरेकस्थाने वह्निसंस्कारं कृत्वा युगबाहुसुतश्चन्द्रयशा मणिरथभूपराज्येऽभिषिक्तः। नमेर्मेदिनीं पालयतोऽन्येद्युः प्रधानः श्वेत| हस्ती आलानस्तम्भमुन्मूल्याचालीद्विन्ध्याटवीं प्रति । अत्रान्तरे चन्द्रयशसो राज्ञो हस्ते स गजश्वटितः । स राजा च तमैरावणगजसोदरं बलाद्बद्ध्वा स्वपुरमानिनाय । तं ज्ञात्वा चरनरैर्नमीराजा तं गजमानयितुं दूतं प्राहिणोत् । दूतस्तत्र गत्वा प्राह - भो चन्द्रयशः ! नमीराजा मिथिलाखामी खं गजमत्रागतं याचते । ततश्चन्द्रयशा जगौ - | यदेवं तव स्वामी निजं गजमत्रायातं याचते मां तत्कथं स त्वत्स्वामी नीतिशास्त्रं न वेत्ति ? । ततोऽस्मिन्नीतिशास्त्रे प्रोक्तं शुश्रावापि न ?, यतः - न श्रीः कुलक्रमायाता, शासने लिखिताऽपि वा । खड्गेनाक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा ॥१॥ इत्यादि । दूतोऽवग्-यदि त्वया गजो नापयिष्यते तदा मम खामी सङ्ग्रामे त्वां हत्वा गजं ग्रहीष्यति । 1 nal For Private & Personal Use Only मदनरेखा वृतं । ॥ २६७ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy