SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ विनिमित्तं वा । वेदयते तत्सर्वं नरकादौ पुनरसावेकः॥१॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥२॥ इत्यादि धर्मोपदेशान्ते सुरो मदनरेखां प्रति प्राह-एहि राजकुलं यामो । दर्शयामि तवाङ्गजम् । ततो मदनरेखाऽवग्-पुत्रेणेहानन्तभवभ्रमणहेतुना सृतम् । यतो गुरूणां पार्श्वे मया सर्वः संसारसारः श्रुतः । संसारे भ्रमतां प्राणभाजां पतिसुतादयः । सम्बन्धाद्भूरिशो भूता, भविष्यन्ति भवन्ति च॥१॥ ममैष तनयो जातोऽनन्तशो भवभ्रान्तितः । जनिताऽहं तथाऽनन्तवाराश्वानेन भूतले ॥२॥ यतः कोऽहं कस्य (स्मिन्) कथमायातः, का मे जननी को मे तातः । इति परिभावयतः संसारः, सर्वोऽयं खलु खप्नविचारः ॥ ३ ॥ दाराः परिभवकाराः बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य । मोहो? ये रिपवस्तेषु सुहृदाशा॥४॥एतासामपि साध्वीनां चरणाः शरणं मम!। इत्युक्ते मदनरेखया देवः स्वर्ग ययौ । साध्वीनां पार्श्वे दीक्षां गृहीत्वा मदनरेखा सञ्जातसुव्रतावाना तपस्तपतेतराम् । इतो भूपगृहे तस्य बालस्य प्रभावेण सर्वे रिपवोऽपि भूपं नताः । ततस्तेन भूपेन पद्मरथेन तस्य पुत्रस्य नमिर्नामेति चक्रे । धात्रीभिः । पाल्यमानो नमिकुमारःक्रमात् प्राप्तयौवन उपाध्यायान्ते धर्मकर्मशास्त्रकला जग्राह । पित्रा क्रमाद्राजकुले जातानां Jain Education intelle For Private Personal Use Only D elibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy