________________
तौ क्रमात् पुण्यविशेषात् सुरौ जातौ । तयोर्मध्यादेकः खर्गाच्युतः पद्मरथो राजाऽभूत् । द्वितीयस्ते सुतोऽजनि । तेनान्यदा पद्मरथेनाश्वापहृतेन तवाङ्गजो गृहीतः। खपत्न्याः पुष्पमालायाः समर्पितः । पूर्वभवस्नेहात् तव तस्य । सूनोः पद्मरथो जन्मोत्सवादि कारयामास । अतस्तव सुतः सुख्यस्ति साम्प्रतम् । एवं जल्पति मुनौ तत्राकस्माद्गगनाध्वना जितसूरशशिप्रभं रत्नौघनिर्मितं किङ्कणीकणतवाणं देवकृतजयजयारावं विमानं समाययौ । ततो। विमानादुत्तीर्य तेजःपुञ्जपराभूतसूर्यचन्द्रः चलत्कुण्डलाद्यनेकाभरणभूषिताङ्गो गन्धर्वदेवगीयमानगुणः स सुरो मदनरेखायास्तिस्रः प्रदक्षिणा दत्त्वा तस्या एव पादौ प्रणणाम च। पश्चान्मुनि वन्दते स्म । ततो मुनेरग्रे धर्म श्रोतुमुपविष्टः सुरः । असम्बन्धमिमं प्रेक्ष्य, मणिप्रभः खगाधिपः । तं भासुरं सुरं नत्वा, प्रोवाचेति तकं प्रति । ॥ १॥ देवा अपि अनीतिमार्गे चलन्ति तदाऽस्माकं किं दूषणं भवति ?, चतुर्ज्ञानधरं मुनि मुक्त्वा कथं नारी-IN मानतस्त्वम् ? । अथ सुरो यावत् किञ्चित् वक्ति तावन्मुनिराचष्ट-भो खेचर ! मैवं ब्रूहि, नैवायं सुर उपालम्भमर्हति । यदा अस्या मदनरेखाया भर्ता युगबाहुर्घात्रा मणिरथेन भूपेनास्यामेवासक्तमनसा हतः तदा मृत्युकालेऽनया स्त्रिया खभर्ता मधुरैर्वचनैस्तथाऽऽराधनाभिर्निर्यामितः यथा जैनेन्द्रध्यानं प्रापितो युगबाहुः पञ्चमे
Jain Educ
a
tional
For Private & Personel Use Only
ww.jainelibrary.org