________________
श्रीभरतेश्वरवृत्ती २विभागे
॥२६॥
रथो दुष्टो मां प्रातर्ग्रहीष्यति । मम च कोऽपि रक्षिता नास्ति । अतः परं मया यथा तथा शीलं खर्गापवर्गसुखदं मदनरेखा
चरित्र रक्षितव्यमेव । इति ध्यात्वा मदनरेखा प्रच्छन्नं निर्ययौ ततः स्थानात् । द्वितीयेऽहनि मदनरेखा महाटव्यां। गता । तत्र कस्मिंश्चिजलाशये पयः पीत्वा मदनरेखा कदलीगृहे सुप्ता । तत्र स्थिता मदनरेखा सप्तमे दिने पुत्रमसूत । प्रातः कम्बलरत्नेन वेष्टयित्वा शिशुं तस्य करे च युगबाहुनामाङ्कितमुद्रिकां क्षिप्त्वा तत्र च तं छायायां | मुक्त्वा सरसि चीवराणि प्रक्षालयितुं गता मदनरेखा । तत्र पयोमध्ये प्रविष्टा सती मदनरेखा जलहस्तिनादा शुण्डया गृहीत्वा व्योम्नि उच्छालिता। तदानीं नन्दीश्वरतीर्थयात्राप्रस्थितेन खेचरेण नभसः पतन्ती राज्ञी जगृहे। स खगस्तद्रूपमोहितस्तां वैताढ्यं निनाय । खगेन रुदनकारणं पृष्टा मदनरेखा खसम्बन्धं प्राहेति । यतः स्थानादह मत्र त्वयाऽऽनीता तत्राहं पुत्रमसविषि। तं पुत्रं कदलीगृहे मुक्त्वा तत्र जलहस्तिनाऽऽकाशे उल्लालिता तव हस्ते चटिता|ऽहम् । स बालो मां विना तत्रस्थो मरिष्यति ।प्रसादं कृत्वा तमत्रानय, अथवा मां तत्र नय । खगोऽवग्-यदि 1 ॥ २६४ ॥
त्वं मां भर्तृत्वेन प्रतिपद्यसे तदाऽहं तव किङ्करो भवामि । आलम्बनं विना शीलं पालयितुं न शक्यते इति ध्यात्वा । | मदनरेखा जगौ-तं पुत्रमत्रानय। खगोऽवग्-अहं तु वैताढ्यपर्वतस्थरत्नावहपुरेशस्य मणिचूडविद्याधरस्य पुत्रो |
ASM
Jain Education
na
For Private Personel Use Only
ATMjainelibrary.org
चा