________________
मित्रममित्रं मे, स्वजनोऽरिजनोऽपि वा । तं क्षमयस्व तस्मै च, क्षमस्व त्वमपि स्फुटम् ॥ १॥ तिर्यक्त्वे सति तिर्यञ्चो, नरकेऽपि च नारकाः। अमरा अमरत्वे च, मानुषत्वे च मानुषाः ॥ २॥ ये त्वया स्थापिता दुःखे, सर्वांस्तान् क्षमयाधुना । क्षमस्व त्वमपि तेषां, मैत्रीभावमुपागतः ॥ ३ ॥ जीवितं यौवनं लक्ष्मी, रूपं प्रियसमा-N गमः । चलं सर्वमिदं वात्यानर्तिताब्धितरङ्गवत् ॥ ४॥ व्याधिजन्मजरामृत्यु-ग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म, शरणं कोऽपि नापरः ॥ ५॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत मनोऽग्रे कः, कः प्रतिबन्धमेकदा ? ॥६॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको, दुःखान्यपि स एव हि ॥ ७ ॥ इत्याद्यनित्यतादिभावनातस्त्वं धीरो भव, कातरत्वं मा कुरु । यतः-"न सा जाई न सा । जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ १ ॥ एगोऽहं नत्थि मे कोई, नाहमन्नस्स कस्सई । एवमदीणमणसो, अप्पाणमणुसासइ॥२॥” इत्यादि प्रियावचःशृण्वन् युगबाहुः शुभध्यानपरायणो विपद्य ब्रह्मलोके देवोऽभूत् । ततश्चन्द्रयशास्तत्रागतो युगबाहुं मृतं दृष्ट्वा भृशं रुरोद । मदनरेखाऽपि चिरं रुदित्वा दध्यौ-धिगस्तु मां याऽहं पत्युर्मरणे हेतुरभूवम् । भर्ता तु मृतः । स्त्रियास्तु पतिरेव शरणं । मणि
Jain Educat
onal
For Private Personel Use Only
Www.jainelibrary.org