________________
॥ श्रीभरतेश्वरवृत्ती २विभागे
चरित्रं।
॥२६३॥
खड्गसखा वने ययौ । रहो मद्धातुरेकाकिनोऽत्र बने स्थातुं न युक्तमिति वदन राजा कदलीगृहे गतः। युग-1 मदनरेखाबाहुस्तत्क्षणात्तत्र भ्रातरमागतं दृष्ट्वा समुत्थाय विनयपूर्व नतिं चकार । ततो मणिरथः स्वकल्पितवार्ता कुर्वन् । खड्गमाकृष्य सहोदरं हतवान् । तदा मदनरेखया कलकले कृते सुभटास्तं हन्तुं यावदाययुः तावत् खड्नेन भ्रात्रा हतोऽपि युगबाहुराह-भो भटा ! मा नन्तु मा नन्तु मम सहोदरम् । यतोऽस्य भ्रातुर्न दूषणं । मम प्राचीनकर्मैव समागतम् । मणिरथो हृष्टः स्वमनीषितकार्य सिद्धमिव मत्वा गृहे ययौ । तत्राकस्मात् सर्पण दष्टः । यतः-"अत्यु-19/ ग्रपुण्यपापानामिहैव फलमाप्यते । त्रिभिर्मासैस्त्रिभिः पक्ष-स्त्रिभिर्यामैस्त्रिभिर्दिनैः॥१॥” युगबाहुपुत्रश्चन्द्रयशआह्वो । व्रणचिकित्सार्थं चाययौ । इतः-श्वसन्तं पति मदनरेखा जगौ-भो पते ! खेदोऽधुना मनाग न कर्तव्यः। जीवाः । कृतकर्मणः सकाशान्न छुट्यन्ति । यतः-“यद्येन विहितं कर्म, भवेऽन्यस्मिन्निहापि वा । वेदितव्यं हि तत्तेन, निमित्तं तु परो भवेत् ॥१॥ गृहाण धर्मपाथेयं, कायेन मनसा गिरा । यत् कृतं दुष्कृतं किश्चित् , तत्सर्वं गर्ह || ॥ २६३॥ संप्रति ॥ २ ॥ शत्रौ मित्रे सुते पुत्र्यां, मणौ दृषदि सर्वथा । मोहः सद्भिर्न कर्तव्योऽनन्तसंसारदायकः ॥ ३॥" ततः आराधना समग्रापि मदनरेखया स्मारिता पतिम् । युगबाहुना तदा सम्यगाराधना श्रद्दधे । तथाहि-यश्च ।
Jain Education
a
l
For Private Personel Use Only
ITsMainelibrary.org