________________
Jain Education
| एव दातव्याः । उत्तमास्तु इहामुत्र विरुद्धं नाचरन्ति । यतः - " जीवघातादलीकोक्तात्, परद्रव्यापहारतः । परस्त्रीकामनेनापि, व्रजन्ति नरके गतिम् ॥ १ ॥ परस्त्रीग्रहणे वाञ्छा, न कार्या भूभुजा क्वचित् । यतो | भूपानुगा लोका, भवन्ति जगतीतले ॥ २ ॥ इत्याद्याकर्ण्य दूती पश्चाद्भूपोपान्ते गत्वा मदनरेखोक्तं सर्वं कथयामास । तया वार्तया विशेषतो राजा कामातुरस्तां मदनरेखां भोक्तुं दध्यौ मणिरथः । युगबाहौ जीवति मयेयं । नाङ्गीकर्तुं शक्यते । ततः आदावुपायेन युगबाहुं हन्मि । पश्चादहं मदनरेखामङ्गीकरिष्यामि । एवं ध्यात्वा लघुभ्रातरं मणिरथोऽनिशं हन्तुं वाञ्छति । छिद्राणि सदा विलोकयति । इतः - अन्यदा मदनरेखया स्वप्ने पूर्णेन्दुर्दृष्टः । ततस्तया भत्रे स्वप्नो निवेदितः । युगबाहुः प्राह - तव चन्द्रतुल्यः पुत्रः सौम्यगुणो भविष्यति । क्रमात्तस्यास्तृतीये मासे दोहद इत्यभवत् - जिनेन्द्राणां पूजां करोमि, गुरून् प्रतिलाभयामि, धर्म्मकथां शृणोमि करोमि श्रावया - | म्यन्यम् । यतः - यादृशो जायते गर्भे, जीवो वृष्यवृषोऽप्यथ । तादृशो मातुरेव स्या - मनोरथः स्वमानसे ॥ १ ॥ अन्येद्युर्युगबाहुः सप्रियो वसन्तसमये उद्यानवने क्रीडायै ययौ । जलादिक्रीडां कृत्वा रात्रौ कदलीगृहे युग - बाहुः स्मृतनमस्कारः सुप्तः । इतो - मणिरथो युगबाहुं स्वल्पपरिवारं रात्रौ तत्र स्थितं मत्वा तं भ्रातरं हन्तुमेकाकी
tional
For Private & Personal Use Only
jainelibrary.org