________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ २६२ ॥
Jain Educatio
तथाहि—भरतखण्डभूषणे सुदर्शननामपुरे मणिरथो राजा राज्यं कुरुते स्म । तस्य लघुर्भ्राता युवराजो युगबाहुरभूत् । तस्य प्रिया सुशीला मदनरेखाऽजनि । तस्या रूपश्रियं सर्वोत्कृष्टां वीक्ष्य मणिरथो मोहितो दध्यौ इति स्वचेतसि - इयं मदनरेखा मया ध्रुवं ग्रायैव । यद्यनया न रंस्यते तदा मम जन्म निष्फलं भविष्यति । ततो यदा यदा वर्यपुष्पताम्बूलवस्त्राभरणादीनि वस्तूनि मदनरेखायाः प्रलोभनाय प्रेषयामास दास्या हस्ते तदा तदा सा ज्येष्ठस्यायं महाप्रसाद इतिकृत्वा मस्तके मणिरथोक्तमङ्गीकरोति स्म । अन्यदा भूपप्रहिता दासी तत्र | मदनरेखापार्श्वे गत्वा प्राहेति - भद्रे ! तव गुणग्रामासक्तो मणिरथो नृपस्त्वां भोगाय वाञ्छति मन्मुखेन (च) जल्पति । तदा दासीवचोवज्राहता राज्ञी जगाद तां प्रति - अन्याखपि गणिकादिनारीषु नोपैति वधूं जनः । यदि स्त्रीणां शीलगुणो न भवति तदा काञ्जिकं कथितमिव सा स्यात् । अग्रे स्त्रीजुगुप्सा । यदि शीलभङ्गं स्त्री करोति तदा नरक - पातो भवति । यतः - अणंताउ कम्मरासीउ, जया उदयमागया । तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा ! ॥१॥ एवंविधेष्वन्तःपुरेषु सत्स्वपि कोऽन्यो मूढोऽन्यां स्त्रियमिच्छति नरकगामी ? । मम भर्तरि जीवति यो मां भोक्तुमिच्छति स नूनं मृत एव । यदि वा बलात्कारः करिष्यते तेन तदा मया शरीरदानस्थानेऽस्मै प्राणा
For Private & Personal Use Only
चन्दनवालाकथा ।
॥ २६२ ॥
jainelibrary.org