________________
प्रभौ धर्मोपदेशं दिशति चरमपौरुषीव्याख्याने सहजविमानस्थौ चन्द्रसूर्यो तत्रागतौ । सन्ध्यां पतितां ज्ञात्वा चन्दनाऽभ्युत्थाय पुरमध्ये उपाश्रयं गता । मृगावती वेलामजानती तत्रैव तस्थौ । चन्द्रसूर्ययोः स्वस्थाने गतयोरन्धकारं वीक्ष्य मृगावती समुत्थायोपाश्रयं ययौ । इतश्चन्दनया पौरुषी भणित्वा संस्तारितम् । मृगावती तु चन्दनायाश्चरणसंवाहनां कुर्वाणा वकृतं कर्म निन्दन्ती मिथ्यादुष्कृतं ददाति । अतः प्रभृति मयैवं न कर्तव्यम् । तदा चन्दना रुष्टोत्तरमपि न दत्ते । स्वमात्मानं निन्दन्त्या मृगावत्याः केवलज्ञानमुत्पन्नम् । तदा कृष्णं सर्पमापतन्तं दृष्ट्वा मृगावती चन्दनाया हस्तमुत्पाट्यान्यत्र मुमोच । तदा रुष्टा चन्दना जगौ-उत्तिष्ठेतः स्थानादन्यत्र गच्छ, मम हस्तं कथमुत्पाटयसि ?, मृगावत्योक्तं-सर्प आगच्छति । चन्दनयोक्तं-कथं ज्ञातं त्वया ?, मृगावती जगौज्ञानेन । चन्दनयोक्तं-किं ज्ञानं प्रतिपाति अप्रतिपाति वा ?, तयोक्तम्-अप्रतिपाति । ततोऽभ्युत्थाय मिथ्यादुष्कृतं ददानायाश्चन्दनबालाया अपि केवलज्ञानमुत्पन्नं । ततो हे अपि मुक्तिं गते । इति चन्दनबालाकथा समाप्ता ॥२॥
मनोरमाकथा सुदर्शनश्रेष्ठिकथाया ज्ञातव्या ॥ ३ ॥ पालयन्ति सदा शीलं, मुक्त्यादिसुखदायकम् । भव्या मदनरेखावत, मनसा वपुषा गिरा॥१॥
Jain EducaIDI
For Private
Personel Use Only
Haw.jainelibrary.org