________________
वेलायां व्यतीतायां भावतो राजपुत्री दासत्वमापन्ना निगडिता रुदती मुण्डितमस्तका अष्टमभक्तिका क्वापि मह्यं । भिक्षां दास्यति तदा मया भिक्षा ग्राह्येत्यभिग्रहं गृहीत्वा गोचरचर्यायां [श्रीवईमानजिनो] भिक्षार्थं गृहे गृहे भ्रमति स्म । एवंविधाभिग्रहवन्तं श्रीवीरजिनं तत्राकस्मादागतं वीक्ष्य हृष्टा चन्दनबाला कुल्माषपूर्णसूर्पकहस्ता निगडिता मुण्डितमस्तका एकं पादमुम्बराबहिर्दधाना द्वितीयं पादमुम्बरान्मध्ये दधाना तुष्टाव-भगवन् ! जग| तीवन्द्य, स्वर्गापवर्गसौख्यद। निर्जिताशेषभावारे, विजयस्व चिरं प्रभो!॥१॥ प्रसद्य चापि देवेश, शुद्धमन्नमिदं । स्फुटम् । गृहाण मां (द्राक्) कुरुष्व त्वं, कृतार्थी मां हि साम्प्रतम्॥२॥प्रभुस्तदा स्वमभिग्रहं पूर्ण वीक्ष्य कुल्माषान् । जग्राह । पृथ्वीनाथसुता भुजिष्यचरिता जर्जरिता (निर्यत्रिता) मुण्डिता, सीदन्ती च तथा विधाय पदयोरन्तर्गतां |
देहलीम् ॥ कुल्माषान् प्रहरद्वयव्यपगमे सूर्पस्य कोणे स्थितान्, दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः। V॥१॥ यदा प्रभुणा भिक्षा गृहीता तदा देवैरभ्येत्य द्वादशकोटिस्वर्णवृष्टिः कृता । तदा लोहनिगडानि खर्णी-II
भूतानि । देवदुन्दुभयो देवैर्वाद्यन्ते । तदा शतानीको राजा तत्रागतो दृष्ट्वा देवकृतां रत्नवृष्टिं चमत्कारं प्राप। राजा जगौ-इयं वर्णवृष्टिरस्याश्चन्दनबालाया भवतु । तदा चन्दनबाला जगौ-मदीयमथ भाग्यं वर्तते यत्प्रभुर्मया |
JainEducatiore
For Private
Personal Use Only