________________
|| वितीर्णं शुद्धपात्रेषु, दानं सद्भावपूर्वकम् । चन्दनाया इव श्राद्या, वीरो मुक्त्यै भवेन्ननु ॥ १॥ | तथाहि-अस्मिन् भरतखण्डे कौशाम्बी पुरी विद्यते । तत्रानेके जिनप्रासादाः शोभन्ते।तत्र शतानीको राजा
न्यायाध्वना दानादिधर्मपरो राज्यं करोति स्म । तेन राज्ञा चेटकराज्ञः पुत्री मृगावती नाम्ना परिणीता । तस्य । IN मन्त्री सुगोत्रोऽभूत् । तस्य प्रिया नन्दा नाम्न्यजनि।सा च श्राविका मृगावत्या सह मैत्री कुर्वाणा धर्मं करोति स्म।
तत्र च धनावहनाम्ना श्रेष्ठी वसति स्म । तस्य पत्नी मूलाऽजनि । इतस्तत्र श्रीवीरजिनो विहरमाणः छद्मस्थः । | पौषकृष्णप्रतिपदिने समागात् । इतः प्रभुस्तत्राभिग्रहं लाति स्म । लोहनिगडितबद्धांत्रिः १ मुण्डिता २ उपोषिता ३ रुदती ४ राजपुत्र्यपि प्रेष्यतां गता ५ देहल्यन्तरितैकपदा ६ निवृत्तायां भिक्षावेलायां ७ सूर्पकोणे ८ कुल्माषान् ९ ददाति तदा मया पारणकं कर्तव्यं, नान्यथा इति. प्रभुवीरोऽभिग्रहं जग्राह । एवमभिग्रहं गृहीत्वा मध्याह्ने भिक्षाचर्यायां भ्रमतः प्रभोश्चतुर्मासी गता । अन्येद्युः प्रभुः भिक्षार्थं भ्रमन् कल्पगुरिव सुगोत्रमत्रिगृहे समागात् । तदा प्रभुं दुर्बलगात्रं शुद्धामपि भिक्षामगृह्णानं सुगोत्रमत्रिपत्नी नन्दा दृष्ट्वा हृष्टा भिक्षां दातुमभ्युत्तस्थौ । घृतक्षीरखण्डाद्याहारं ददानां तामतिक्रम्य प्रभुरन्यत्र गतः। ततो नन्दा पत्युः पार्श्वे प्राह-प्रभुः कथं भिक्षां न गृह्णाति?
Jain Educat
i onal
For Private & Personel Use Only
Nw.jainelibrary.org