SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्ती साळ्यधिः कारे सुलसाकथा। ॥ २५५॥ मवृथार्थमविद्य (भं) तद्वदन्ति विबुधा भुवि वन्द्यम् ॥ ५॥ येः प्रसूनलतिकाभिरिहाङ्गमङ्कयन्ति तव देव सुचङ्गम् । चामराणि नियतं विलसन्ति, तत्पराणि तत्पुरो विकसन्ति ॥ ६॥ यो जिनाधिप ! पूजनमत्र, प्रातरेव विदधाति । पवित्रः । पूज्यतां स लभतेऽत्र परत्र, सर्वदैव च नृपेषु विशिष्टाम् ॥ ७ ॥ त्रैशलेयचरणाम्बुजशेषां, ये वहन्ति | शिरसा हृतदोषाम् । आतपत्रममलं किल तेषां, मस्तकोपरि विभाति समेषाम्॥ ८॥ इत्यादि श्रीवीरजिनं स्तुत्वा । सोदरतुल्यभक्त्याऽन्नपानादिविश्राणनेन सादरमम्बडं भोजयामास सुलसा । ततश्चाम्बडस्तत्र जिनान्नत्वाऽन्यत्र चचाल । सुलसा निरन्तरं श्रीवीरजिनस्य त्रिकालमा कुर्वाणोभयकालं प्रतिक्रमणं तन्वाना सत्पात्रेषु दानं ददाना| षष्ठाष्टमादितपःकरणपरा निजं वपुः निष्पापं चकार । ततः सुलसा श्रीशत्रुञ्जयादिषु यात्रां चकार विस्तरतः। नागोऽपि | विशेषतःशुद्धं श्रीजिनधर्म करोति । अथ सुलसा प्रान्तसमयमवगत्य गुरुपार्श्वे कृताञ्जलिः प्राह-भगवन् ! मंमारा-| धनां कारयाधुना । ततो गुरुभिराराधना कारिता विस्तरात् । ततः सुलसा कृताराधना श्रीवीरजिनं हृदये स्मरन्ती | ॥२५५॥ स्वर्गलोकं जगाम। ततश्च्युता सुलसा अत्रैव भरतखण्डे भाविन्यां चतुर्विंशतौ निर्ममः पञ्चदशो जिनेन्द्रो भविष्यति। इति यः श्रीजिनेन्द्राणां कुरुते (आराधनां) स सुलसा श्राविकेव मुक्तिभाग् भवति।इति सुलसाचरित्रं समाप्तम् ॥१॥ Jain Education anal For Private & Personel Use Only Jorainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy