SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अहं साक्षात् पञ्चविंशतितमो जिनः समागाम् । तदा सुलसा दध्यौ-जिनाश्चतुर्विंशतिरेव भवन्ति, न पञ्चविंशतिः।। अत एष कूटो जिनः। ततस्तत्रापि वन्दितुं सुलसा न गता। ततः पञ्चमे दिने श्रावकवेषं कृत्वा धौतिकवस्त्रधरः सुलसागृहे यावन् मुनिर्ययौ तावत् सुलसा तमागच्छन्तं दृष्ट्वा हृष्टा सम्मुखं गत्वा सादरं वन्दामीति मिथो । जल्पतस्तौ। आसनमुपवेशनाय वितीर्य सुलसा जगौ-भवतः समाधिरस्ति ? । तेनोक्तं-देवगुरुपादप्रसादैः । मया । श्रीशत्रुञ्जयादितीर्थेषु यात्रा कृता । चम्पायामहं गतः। तत्र श्रीवर्धमानो जिनो वन्दितः।धर्मोपदेशः श्रुतः। भगवता । प्रोक्तं-त्वया राजगृहे सुलसायाः श्राविकाया धर्मलाभः कथनीयः। एतच्छ्रुत्वा सुलसा समुत्थाय भक्त्या क्षमाश्रमणपूर्व प्रभुं वन्दते स्म, स्तौतीति च-मोहमल्लबलमर्दनवीर, पापपङ्कगमनामलनीर । कर्मरेणुहरणैकसमीर, त्वं जिनेश्वरपते जय वीर !॥१॥ देवदानवनरेश्वरवन्ध, चालिताचलसुराचलशृङ्ग। केवलाक्षिकलिताखिलविश्व, रूप|निर्जितजगत्रयवीर ॥२॥ वर्द्धमान जनपावननाथ, पादपीठलुठितामरनाथ! । तावकीनपदपङ्कजसङ्गं, मौलिसद्मनि करोमि सरङ्गम् ॥ ३ ॥ ये तवांघिरजसा जनिताङ्का, भालपट्टतिलके विकलाङ्काः । स्वीकरोति न भवोऽपि नरांस्तानङ्कशङ्कित इवाधिनिरस्तान् ॥ ४॥ यजिनेन्द्रपदपङ्कजमूले, लोलुठीति सततं शिवकूले । उत्तमाङ्ग- For Private Personal Use Only aineliorary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy