________________
॥ श्रीभरतेश्वरवृत्तौ साध्व्यधि
कारे
॥ २५४ ॥
Jain Education
सर्वकार्यकरः कामं, सर्वोत्कृष्टगुणाधिकः । भवेषु लक्षसंख्येषु तथाऽयं मानुषो भवः ॥ ४ ॥ इत्यादि धर्मो पदेशं श्रुत्वा श्रीआम्बडपरिव्राजकः पूर्वप्रपन्नश्रावकधर्मः त्रिदण्डकुण्डिकाहस्तो धातुरक्तवस्त्रः शिखावृषीपीठ - |धरः छत्रिकावारितातपो व्योमविद्याद्यनेकलब्धिधरः सर्वज्ञाज्ञाभृत् प्रभुं प्रणम्याह - भगवन् ! मयाऽनेकेषु तीर्थेषु देवा नताः अधुना राजगृहे जिनान्नन्तुं यियासुरस्मि । यदि तत्र किमपि कार्यं भवति तदादिश्यताम् । प्रभुः | प्राह - तत्र सुलसायाः सुश्राविकाया धर्मलाभः कथनीयस्त्वयाऽस्मदीयः । तथेति गदित्वा स मुनिः प्रभुं प्रणम्य चचाल । राजगृहोपान्ते गत्वा दध्यौ -यस्या गुणै रञ्जितो भगवान् धर्मलाभं प्रेषयति सा कीदृश्यस्तीति धर्मे परीक्षा करिष्यते प्रथमं, पश्चात् प्रभूक्तं कथयिष्यते मया । ततः पूर्वं सत्पात्रीभूय यतीभूय च सचितादिवस्तुया| चनेन परीक्षिता सुलसा । तदा न चलिता । ततो ब्रह्मरूपं कृत्वा पद्मासनस्थश्चतुराननः पूर्वद्यारे समेत्य मुनिः प्राह - अहं ब्रह्मास्मि । तदा ब्रह्माणमागतं श्रुत्वा सुलसां विना सर्वजनास्तत्र वन्दितुं समाययुः । दक्षिणस्यां | विष्णुरूपे तेन कृते तत्र नागता सुलसा । पश्चिमायामीश्वररूपे कृतेऽपि तेन नागता वन्दितुं तत्र सुलसा । चतुर्थे | दिने मुनिर्जिनेन्द्ररूपं विधाय स्वर्णरूप्यरत्नमयवप्रादिसमग्र जिनेन्द्र चिह्नधर उत्तरस्यां तस्थौ धर्मोपदेशं दातुम् ।
For Private & Personal Use Only
सुलसाकथा ।
॥ २५४ ॥
inelibrary.org