SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जनान् रोदयामास । तदा नागमन्दिरे समेत्याभयकुमारः प्रबोधायेत्यवग्-अपि जैनमतार्थवेदिनामपि सांसारिक-IN भावनाभृताम् । भवतां नहि शोकसागरे, पतितुं युक्तमिवाविवेकिनाम्॥१॥ यदयं भव इन्द्रजालवद्धरिकोदण्ड इवातिचञ्चलः । चपलश्च गजेन्द्रकर्णवत्, परसन्ध्याभ्रमरागरूपवत् ॥ २॥ पवनेरिततूलपूरवत् , मृगतृष्णेव निदाघवासरे । युवतीनयनाञ्जनवत्सदा, द्रुतकल्लोल इवाम्भसां निधौ ॥ ३ ॥ इह यन्मियते शरीरिभिः, प्रकृतिः । |सा विकृतिस्तु जीवनम्। स्थिरता यदि कापि लभ्यते, स तु लाभः किमु शोच्यतेतराम् ? ॥ ४ ॥ कुशकोटिगतोद-II बिन्दुवत् , परिपक्वद्रुमपत्रवृन्तवत् । जलबुहुदवच्छरीरिणां, क्षणकं देहमिदं च जीवितम् ॥ ५॥ न गजैन | हयैर्न रथैर्न जनैर्न भटैर्न साधनैर्न धनैः। न च बन्धुभिः खदेवैर्मृत्योः परिरक्ष्यते प्राणी ॥ ६॥ श्रुत्वेति । अभयोक्तानि सूक्तानि नागसुलसे गतशोके अभूताम् । इतः-चम्पापुर्या भगवान महावीरः समवासार्षीत् । तत्रानेके देवा राजानो धर्मं श्रोतुमीयुः । संसारसागरेऽपारे, जन्मकल्लोलसङ्कले । दुर्लभं मानुषं जन्म, दृष्टान्तैर्दशभिर्भृशम् ॥ १ ॥ चुल्लग पासग धन्ने जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणू, दस दिटुंता मणुअजम्मे ॥ २ ॥ गोधूम इव धान्येषु, मेघाम्बु सलिलेष्वपि । स्वर्गद्गुः सर्वकाष्ठेषु, यथा धातुषु काञ्चनम् ॥ ३ ॥ Jain Educa t ional For Private Personel Use Only Harjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy