________________
तेषां पुत्राणां पृथक् पृथक् नामानि नागो ददौ । ततः पञ्चभिर्धात्रीमिाल्यमानास्ते नागपुत्रा वृद्धि गच्छन्तो देवकुमारतुल्या बभूवुः । ते नागपुत्राः पदनिबघुर्धरशब्दातृपितृप्रमुखाणां प्रमोदं ददुः । ते पुत्रा नागेन पञ्चवर्षप्रमिता लेखशालायां पठितुं मुक्ताः, कलाः समस्ताध र्मकर्मशास्त्रसम्बन्धिनीर्ललुः । सर्वेऽपि [सुलसा]
धर्मकर्मपरायणाः क्रमाच्छ्रेणिकभूपस्य सेवका बभूवुः । ततः प्राप्तयौवनास्ते कुमारा नागेन महेभ्यपुत्रीः परिणानायिताः । सुलसा ताभिर्वधूभिर्विनयवतीभिः सुखिनी बभूव । अन्येद्युः श्रेणिको विशालायाः चेटकभूपतेः सुज्ये-11 काष्ठापुत्रीरूपं चित्रलिखितं तापसीसमानीतं दृष्ट्रा तामङ्गीकर्तुकामोऽभूत् । तदा श्रेणिकमनोरथपूरणायाम
वणिग्वेषं विधाय विशालायां गतः। तत्र भूपान्तःपुरपार्श्वे हट्टं मण्डयामास । तदा सुज्येष्ठाचेटी तत्र ऋयाणकं| ग्रहीतुमागच्छति । समधु स वणिग् ददाति । यदा यदा चेटी वस्तु ग्रहीतुमायाति तदा पट्टलिखितं श्रेणिकरूपं दिव्यं पूजयामासाभयः। चेट्याऽन्यदा पृष्टं-कस्य रूपम् ?, तेनोक्तं-मया वक्तुं न शक्यते तत्स्वरूपम् । ततो विशेषतश्चेटी पृच्छति । ततः प्रोक्तं श्रेणिकस्य । ततश्चेट्या सुज्येष्ठाया अग्रे प्रोक्तम् । ततः सुज्येष्ठा जगौतथा त्वं कुरु यथा मां स परिणयति। ततश्चेट्या अभयस्याग्रे स्वामिन्युक्तं प्रोक्तम्। ततः सुरक्षा कारिताऽभयेन ।
मरते.४३
Jain Education
For Private Personal Use Only
d
ainelibrary.org