SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ - CA कथा। ॥श्रीभरते- श्वरवृत्ती साध्व्यधिकारे ॥२५२॥ ततो देवेन प्रसन्नेन तस्या उदरव्यथा स्फेटिता । ततो देवः स्वस्थाने गतः । ततः सुलसा धर्मपरा हितैर्मितै-17 सुलसाराहारस्तं गर्भ पोषयामास । यतः-“वातलैश्च भवेद्गर्भः, कुब्जान्धजडवामनः। पित्तकैः पित्तलः पङ्गुः, कुष्ठी पाण्डुकफात्मभिः ॥१॥ याममध्ये न भोक्तव्यं, यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयुग्मे बलक्षयः॥ २॥" ततः सम्पूर्णे समये सुखप्नसूचितान् द्वात्रिंशतं पुत्रानसूत सुलसा । नागस्तेषां पुत्राणां जन्मोत्सवं चक्रे महादानेन । यतः-"नागस्तदाऽदात् सुतजन्महर्षावर्धापनी मार्गणचेटिकाभ्यः।सुवर्णरत्नानि बहूनि यस्मात् , सर्वेऽपि लाभा अनु पुत्रलाभम् ॥ १॥ दिगन्तविश्रान्तमृदङ्गनादं, भेरीरवैर्मिश्रितशङ्खनादम् । नृत्यद्वधूवारकृतप्रमोदं, वेषान्तरैर्दत्तमनोविनोदम् ॥२॥ सुवासिनीमङ्गलगीतगानं, वित्तानुसारेण वितीर्णदानम्। कार्यान्तरप्रेरितकिङ्करौघ, सुपूज्यपूजाकरणैरमोघम् ॥ ३ ॥ पापठ्यमानामितबन्दिलोकं,वावद्यमानामितधर्मशास्त्रम् । अटाट्यमानामितबन्धुवर्ग, संशोध्यमानामितगुप्तिगेहम् ॥ ४ ॥ उद्भिन्नयूपं कृतसङ्घपूजं, कृतोत्सवं श्रीजिनमन्दिरेषु । प्रदीयमा-11 नाज्यगुडं गृहेषु, प्रविश्यमानाक्षतपात्ररम्यम् ॥ ५॥ सम्भोज्यमानागतसर्वलोकं, ताम्बूलदानेन विधूतशोकम् । आजीविकोत्सारितचित्तरोष, सत्पात्रदानैर्विजितान्यदोषम् ॥६॥” क्रमाद्गते द्वादशमे वासरे सम्भोज्य वजनान् । ॥२५२॥ Jain Education HAUllanal For Private & Personel Use Only Lainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy